भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.027

3.027.001

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह
खरस्याप्य् अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्

3.027.002

स दृष्ट्वा राक्षसं सैन्यम् अविषह्यं महाबलम्
हतम् एकेन रामेण दूषणस् त्रिशिरा अपि

3.027.003

तद् बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः
आससाद खरो रामं नमुचिर् वासवं यथा

3.027.004

विकृष्य बलवच् चापं नाराचान् रक्तभोजनान्
खरश् चिक्षेप रामाय क्रुद्धान् आशीविषान् इव

3.027.005

ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्
चचार समरे मार्गाञ् शरै रथगतः खरः

3.027.006

स सर्वाश् च दिशो बाणैः प्रदिशश् च महारथः
पूरयाम् आस तं दृष्ट्वा रामो ऽपि सुमहद् धनुः

3.027.007

स सायकैर् दुर्विषहैः सस्फुलिङ्गैर् इवाग्निभिः
नभश् चकाराविवरं पर्जन्य इव वृष्टिभिः

3.027.008

तद् बभूव शितैर् बाणैः खररामविसर्जितैः
पर्याकाशम् अनाकाशं सर्वतः शरसंकुलम्

3.027.009

शरजालावृतः सूर्यो न तदा स्म प्रकाशते
अन्योन्यवधसंरम्भाद् उभयोः संप्रयुध्यतोः

3.027.010

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
आजघान रणे रामं तोत्रैर् इव महाद्विपम्

3.027.011

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्
ददृशुः सर्वभूतानि पाशहस्तम् इवान्तकम्

3.027.012

तं सिंहम् इव विक्रान्तं सिंहविक्रान्तगामिनम्
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा

3.027.013

ततः सूर्यनिकाशेन रथेन महता खरः
आससाद रणे रामं पतङ्ग इव पावकम्

3.027.014

ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः
खरश् चिच्छेद रामस्य दर्शयन् पाणिलाघवम्

3.027.015

स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि
निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्

3.027.016

ततस् तत् प्रहतं बाणैः खरमुक्तैः सुपर्वभिः
पपात कवचं भूमौ रामस्यादित्यवर्चसः

3.027.017

स शरैर् अर्पितः क्रुद्धः सर्वगात्रेषु राघवः
रराज समरे रामो विधूमो ऽग्निर् इव ज्वलन्

3.027.018

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः
चकारान्ताय स रिपोः सज्यम् अन्यन् महद् धनुः

3.027.019

सुमहद् वैष्णवं यत् तद् अतिसृष्टं महर्षिणा
वरं तद् धनुर् उद्यम्य खरं समभिधावत

3.027.020

ततः कनकपुङ्खैस् तु शरैः संनतपर्वभिः
चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्

3.027.021

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः
जगाम धरणीं सूर्यो देवतानाम् इवाज्ञया

3.027.022

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः
विव्याध हृदि मर्मज्ञो मातङ्गम् इव तोमरैः

3.027.023

स रामो बहुभिर् बाणैः खरकार्मुकनिःसृतैः
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्

3.027.024

स धनुर् धन्विनां श्रेष्ठः प्रगृह्य परमाहवे
मुमोच परमेष्वासः षट् शरान् अभिलक्षितान्

3.027.025

शिरस्य् एकेन बाणेन द्वाभ्यां बाह्वोर् अथार्पयत्
त्रिभिश् चन्द्रार्धवक्त्रैश् च वक्षस्य् अभिजघान ह

3.027.026

ततः पश्चान् महातेजा नाराचान् भास्करोपमान्
जिघांसू राक्षसं क्रुद्धस् त्रयोदश शिलाशितान्

3.027.027

ततो ऽस्य युगम् एकेन चतुर्भिश् चतुरो हयान्
षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः

3.027.028

त्रिभिस् त्रिवेणुं बलवान् द्वाभ्याम् अक्षं महाबलः
द्वादशेन तु बाणेन खरस्य सशरं धनुः
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्न् इव
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्

3.027.029

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिर् अवप्लुत्य तस्थौ भूमौ खरस् तदा

3.027.030

तत् कर्म रामस्य महारथस्य समेत्य देवाश् च महर्षयश् च
अपूजयन् प्राञ्जलयः प्रहृष्टास् तदा विमानाग्रगताः समेताः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc