भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.023

3.023.001

आश्रमं प्रति याते तु खरे खरपराक्रमे
तान् एवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह

3.023.002

तान् उत्पातान् महाघोरान् उत्थितान् रोमहर्षणान्
प्रजानाम् अहितान् दृष्ट्वा वाक्यं लक्ष्मणम् अब्रवीत्

3.023.003

इमान् पश्य महाबाहो सर्वभूतापहारिणः
समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्

3.023.004

अमी रुधिरधारास् तु विसृजन्तः खरस्वनान्
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः

3.023.005

सधूमाश् च शराः सर्वे मम युद्धाभिनन्दिनः
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण

3.023.006

यादृशा इह कूजन्ति पक्षिणो वनचारिणः
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च

3.023.007

संप्रहारस् तु सुमहान् भविष्यति न संशयः
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः

3.023.008

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्
सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते

3.023.009

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः
निष्प्रभं वदनं तेषां भवत्य् आयुः परिक्षयः

3.023.010

अनागतविधानं तु कर्तव्यं शुभम् इच्छता
आपदं शङ्कमानेन पुरुषेण विपश्चिता

3.023.011

तस्माद् गृहीत्वा वैदेहीं शरपाणिर् धनुर्धरः
गुहाम् आश्रयशैलस्य दुर्गां पादपसंकुलाम्

3.023.012

प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदं त्वया
शापितो मम पादाभ्यां गम्यतां वत्स माचिरम्

3.023.013

एवम् उक्तस् तु रामेण लक्ष्मणः सह सीतया
शरान् आदाय चापं च गुहां दुर्गां समाश्रयत्

3.023.014

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया
हन्त निर्युक्तम् इत्य् उक्त्वा रामः कवचम् आविशत्

3.023.015

सा तेनाग्निनिकाशेन कवचेन विभूषितः
बभूव रामस् तिमिरे विधूमो ऽग्निर् इवोत्थितः

3.023.016

स चापम् उद्यम्य महच् छरान् आदाय वीर्यवान्
बभूवावस्थितस् तत्र ज्यास्वनैः पूरयन् दिशः

3.023.017

ततो देवाः सगन्धर्वाः सिद्धाश् च सह चारणैः
ऊचुः परमसंत्रस्ता गुह्यकाश् च परस्परम्

3.023.018

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
एकश् च रामो धर्मात्मा कथं युद्धं भविष्यति

3.023.019

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्
अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत

3.023.020

सिंहनादं विसृजताम् अन्योन्यम् अभिगर्जताम्
चापानि विस्फरयतां जृम्भतां चाप्य् अभीक्ष्णशः

3.023.021

विप्रघुष्टस्वनानां च दुन्दुभींश् चापि निघ्नताम्
तेषां सुतुमुलः शब्दः पूरयाम् आस तद् वनम्

3.023.022

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः
दुद्रुवुर् यत्र निःशब्दं पृष्ठतो नावलोकयन्

3.023.023

तत् त्व् अनीकं महावेगं रामं समुपसर्पत
घृतनानाप्रहरणं गम्भीरं सागरोपमम्

3.023.024

रामो ऽपि चारयंश् चक्षुः सर्वतो रणपण्डितः
ददर्श खरसैन्यं तद् युद्धाभिमुखम् उद्यतम्

3.023.025

वितत्य च धनुर् भीमं तूण्याश् चोद्धृत्य सायकान्
क्रोधम् आहारयत् तीव्रं वधार्थं सर्वरक्षसाम्

3.023.026

दुष्प्रेक्ष्यः सो ऽभवत् क्रुद्धो युगान्ताग्निर् इव ज्वलन्
तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः

3.023.027

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा
दक्षस्येव क्रतुं हन्तुम् उद्यतस्य पिनाकिनः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc