रामायण · अध्याय 3.022
तत् प्रयातं बलं घोरम् अशिवं शोणितोदकम्
अभ्यवर्षन् महामेघस् तुमुलो गर्दभारुणः
निपेतुस् तुरगास् तस्य रथयुक्ता महाजवाः
समे पुष्पचिते देशे राजमार्गे यदृच्छया
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्
अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्
ततो ध्वजम् उपागम्य हेमदण्डं समुच्छ्रितम्
समाक्रम्य महाकायस् तस्थौ गृध्रः सुदारुणः
जनस्थानसमीपे च समाक्रम्य खरस्वनाः
विस्वरान् विविधांश् चक्रुर् मांसादा मृगपक्षिणः
व्याजह्रुश् च पदीप्तायां दिशि वै भैरवस्वनम्
अशिवा यातु दाहानां शिवा घोरा महास्वनाः
प्रभिन्नगिरिसंकाशास् तोयशोषितधारिणः
आकाशं तद् अनाकाशं चक्रुर् भीमा बलाहकाः
बभूव तिमिरं घोरम् उद्धतं रोमहर्षणम्
दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे
क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ
खरस्याभिमुखं नेदुस् तदा घोरा मृगाः खगाः
नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः
नेदुर् बलस्याभिमुखं ज्वालोद्गारिभिर् आननैः
कबन्धः परिघाभासो दृश्यते भास्करान्तिके
जग्राह सूर्यं स्वर्भानुर् अपर्वणि महाग्रहः
प्रवाति मारुतः शीघ्रं निष्प्रभो ऽभूद् दिवाकरः
उत्पेतुश् च विना रात्रिं ताराः खद्योतसप्रभाः
संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः
तस्मिन् क्षणे बभूवुश् च विना पुष्पफलैर् द्रुमाः
उद्धूतश् च विना वातं रेणुर् जलधरारुणः
वीचीकूचीति वाश्यन्तो बभूवुस् तत्र सारिकाः
उल्काश् चापि सनिर्घोषा निपेतुर् घोरदर्शनाः
प्रचचाल मही चापि सशैलवनकानना
खरस्य च रथस्थस्य नर्दमानस्य धीमतः
प्राकम्पत भुजः सव्यः खरश् चास्यावसज्जत
सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः
ललाटे च रुजा जाता न च मोहान् न्यवर्तत
तान् समीक्ष्य महोत्पातान् उत्थितान् रोमहर्षणान्
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा
महोत्पातान् इमान् सर्वान् उत्थितान् घोरदर्शनान्
न चिन्तयाम्य् अहं वीर्याद् बलवान् दुर्बलान् इव
तारा अपि शरैस् तीक्ष्णैः पातयेयं नभस्तलात्
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्य् अहम्
राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्
अहत्वा सायकैस् तीक्ष्णैर् नोपावर्तितुम् उत्सहे
सकामा भगिनी मे ऽस्तु पीत्वा तु रुधिरं तयोः
यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः
न क्व चित् प्राप्तपूर्वो मे संयुगेषु पराजयः
युष्माकम् एतत् प्रत्यक्षं नानृतं कथयाम्य् अहम्
देवराजम् अपि क्रुद्धो मत्तैरावतयायिनम्
वज्रहस्तं रणे हन्यां किं पुनस् तौ च मानुषौ
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः
प्रहर्षम् अतुलं लेभे मृत्युपाशावपाशिता
समेयुश् च महात्मानो युद्धदर्शनकाङ्क्षिणः
ऋषयो देवगन्धर्वाः सिद्धाश् च सह चारणैः
समेत्य चोरुः सहितास् ते ऽन्यायं पुण्यकर्मणः
स्वस्ति गोब्राह्मणेभ्यो ऽस्तु लोकानां ये च संमताः
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
चक्रा हस्तो यथा युद्धे सर्वान् असुरपुंगवान्
एतच् चान्यच् च बहुशो ब्रुवाणाः परमर्षयः
ददृशुर् वाहिनीं तेषां राक्षसानां गतायुषाम्
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः
तं दृष्ट्वा राक्षसं भूयो राक्षसाश् च विनिःसृताः
श्येन गामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः
दुर्जयः करवीराक्षः परुषः कालकार्मुकः
मेघमाली महामाली सर्पास्यो रुधिराशनः
द्वादशैते महावीर्याः प्रतस्थुर् अभितः खरम्
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा
चत्वार एते सेनाग्र्या दूषणं पृष्ठतो ऽन्वयुः
सा भीमवेगा समराभिकामा सुदारुणा राक्षसवीर सेना
तौ राजपुत्रौ सहसाभ्युपेता मालाग्रहाणाम् इव चन्द्रसूर्यौ
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0