भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.024

3.024.001

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्
ददर्शाश्रमम् आगम्य खरः सह पुरःसरैः

3.024.002

तं दृष्ट्वा सगुणं चापम् उद्यम्य खरनिःस्वनम्
रामस्याभिमुखं सूतं चोद्यताम् इत्य् अचोदयत्

3.024.003

स खरस्याज्ञया सूतस् तुरगान् समचोदयत्
यत्र रामो महाबाहुर् एको धुन्वन् धनुः स्थितः

3.024.004

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः
नर्दमाना महानादं सचिवाः पर्यवारयन्

3.024.005

स तेषां यातुधानानां मध्ये रतो गतः खरः
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः

3.024.006

ततस् तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः
रामं नानाविधैः शस्त्रैर् अभ्यवर्षन्त दुर्जयम्

3.024.007

मुद्गरैर् आयसैः शूलैः प्रासैः खड्गैः परश्वधैः
राक्षसाः समरे रामं निजघ्नू रोषतत्पराः

3.024.008

ते बलाहकसंकाशा महानादा महाबलाः
अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः

3.024.009

ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः
शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः

3.024.010

स तैः परिवृतो घोरै राघवो रक्षसां गणैः
तिथिष्व् इव महादेवो वृतः पारिषदां गणैः

3.024.011

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः
प्रतिजग्राह विशिखैर् नद्योघान् इव सागरः

3.024.012

स तैः प्रहरणैर् घोरैर् भिन्नगात्रो न विव्यथे
रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महाचलः

3.024.013

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः
बभूव रामः संध्याभ्रैर् दिवाकर इवावृतः

3.024.014

विषेदुर् देवगन्धर्वाः सिद्धाश् च परमर्षयः
एकं सहस्त्रैर् बहुभिस् तदा दृष्ट्वा समावृतम्

3.024.015

ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः
ससर्ज निशितान् बाणाञ् शतशो ऽथ सहस्रशः

3.024.016

दुरावारान् दुर्विषहान् कालपाशोपमान् रणे
मुमोच लीलया रामः कङ्कपत्रान् अजिह्मगान्

3.024.017

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया
आददू रक्षसां प्राणान् पाशाः कालकृता इव

3.024.018

भित्त्वा राक्षसदेहांस् तांस् ते शरा रुधिराप्लुताः
अन्तरिक्षगता रेजुर् दीप्ताग्निसमतेजसः

3.024.019

असंख्येयास् तु रामस्य सायकाश् चापमण्डलात्
विनिष्पेतुर् अतीवोग्रा रक्षः प्राणापहारिणः

3.024.020

तैर् धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च
बहून् सहस्ताभरणान् ऊरून् करिकरोपमान्

3.024.021

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
भीमम् आर्तस्वरं चक्रुर् भिद्यमाना निशाचराः

3.024.022

तत् सैन्यं निशितैर् बाणैर् अर्दितं मर्मभेदिभिः
रामेण न सुखं लेभे शुष्कं वनम् इवाग्निना

3.024.023

के चिद् भीमबलाः शूराः शूलान् खड्गान् परश्वधान्
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः

3.024.024

तानि बाणैर् महाबाहुः शस्त्राण्य् आवार्य राघवः
जहार समरे प्राणांश् चिच्छेद च शिरोधरान्

3.024.025

अवशिष्टाश् च ये तत्र विषण्णाश् च निशाचराः
खरम् एवाभ्यधावन्त शरणार्थं शरार्दिताः

3.024.026

तान् सर्वान् पुनर् आदाय समाश्वास्य च दूषणः
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रम् इवान्तकः

3.024.027

निवृत्तास् तु पुनः सर्वे दूषणाश्रयनिर्भयाः
रामम् एवाभ्यधावन्त सालतालशिलायुधाः

3.024.028

तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्
रामस्यास्य महाघोरं पुनस् तेषां च रक्षसाम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc