रामायण · अध्याय 3.021
एवम् आधर्षितः शूरः शूर्पणख्या खरस् तदा
उवाच रक्षसां मध्ये खरः खरतरं वचः
तवापमानप्रभवः क्रोधो ऽयम् अतुलो मम
न शक्यते धारयितुं लवणाम्भ इवोत्थितम्
न रामं गणये वीर्यान् मानुषं क्षीणजीवितम्
आत्मा दुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति
बाष्पः संह्रियताम् एष संभ्रमश् च विमुच्यताम्
अहं रामः सह भ्रात्रा नयामि यमसादनम्
परश्वधहतस्याद्य मन्दप्राणस्य भूतले
रामस्य रुधिरं रक्तम् उष्णं पास्यसि राक्षसि
सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच् च्युतम्
प्रशशंस पुनर् मौर्ख्याद् भ्रातरं रक्षसां वरम्
तया परुषितः पूर्वं पुनर् एव प्रशंसितः
अब्रवीद् दूषणं नाम खरः सेनापतिं तदा
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्
रक्षसीं भीमवेगानां समरेष्व् अनिवर्तिनाम्
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्
लोकसिंहाविहाराणां बलिनाम् उग्रतेजसाम्
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्
सर्वोद्योगम् उदीर्णानां रक्षसां सौम्य कारय
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च
शरांश् च चित्रान् खड्गांश् च शक्तीश् च विविधाः शिताः
अग्रे निर्यातुम् इच्छामि पौलस्त्यानां महात्मनाम्
वधार्थं दुर्विनीतस्य रामस्य रणकोविदः
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्
सदश्वैः शबलैर् युक्तम् आचचक्षे ऽथ दूषणः
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्
हेमचक्रम् असंबाधं वैदूर्यमय कूबरम्
मत्स्यैः पुष्पैर् द्रुमैः शैलैश् चन्द्रसूर्यैश् च काञ्चनैः
माङ्गल्यैः पक्षिसंघैश् च ताराभिश् च समावृतम्
ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम्
सदश्वयुक्तं सो ऽमर्षाद् आरुरोह रथं खरः
निशाम्य तं रथगतं राक्षसा भीमविक्रमाः
तस्थुः संपरिवार्यैनं दूषणं च महाबलम्
खरस् तु तान् महेष्वासान् घोरचर्मायुधध्वजान्
निर्यातेत्य् अब्रवीद् दृष्ट्वा रथस्थः सर्वराक्षसान्
ततस् तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम्
निर्जगाम जनस्थानान् महानादं महाजवम्
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश् च परश्वधैः
खड्गैश् चक्रैश् च हस्तस्थैर् भ्राजमानैश् च तोमरैः
शक्तिभिः पतिघैर् घोरैर् अतिमात्रैश् च कार्मुकैः
गदासिमुसलैर् वज्रैर् गृहीतैर् भीमदर्शनैः
राक्षसानां सुघोराणां सहस्राणि चतुर्दश
निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्
तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्
खरस्यापि रथः किं चिज् जगाम तदनन्तरम्
ततस् ताञ् शबलान् अश्वांस् तप्तकाञ्चनभूषितान्
खरस्य मतम् आज्ञाय सारथिः समचोदयत्
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः
शब्देनापूरयाम् आस दिशश् च प्रतिशस् तथा
प्रवृद्धमन्युस् तु खरः खरस्वनो रिपोर् वधार्थं त्वरितो यथान्तकः
अचूचुदत् सारथिम् उन्नदन् पुनर् महाबलो मेघ इवाश्मवर्षवान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0