भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.020

3.020.001

स पुनः पतितां दृष्ट्वा क्रोधाच् छूर्पणखां खरः
उवाच व्यक्तता वाचा ताम् अनर्थार्थम् आगताम्

3.020.002

मया त्व् इदानीं शूरास् ते राक्षसा रुधिराशनाः
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः

3.020.003

भक्ताश् चैवानुरक्ताश् च हिताश् च मम नित्यशः
घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर् वचो मम

3.020.004

किम् एतच् छ्रोतुम् इच्छामि कारणं यत्कृते पुनः
हा नाथेति विनर्दन्ती सर्पवद् वेष्टसे क्षितौ

3.020.005

अनाथवद् विलपसि किं नु नाथे मयि स्थिते
उत्तिष्ठोत्तिष्ठ मा भैषीर् वैक्लव्यं त्यज्यताम् इह

3.020.006

इत्य् एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता
विमृज्य नयने सास्रे खरं भ्रातरम् अब्रवीत्

3.020.007

प्रेषिताश् च त्वया शूरा राक्षसास् ते चतुर्दश
निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम्

3.020.008

ते तु रामेण सामर्षाः शूलपट्टिशपाणयः
समरे निहताः सर्वे सायकैर् मर्मभेदिभिः

3.020.009

तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान्
रामस्य च महत् कर्म महांस् त्रासो ऽभवन् मम

3.020.010

सास्मि भीता समुद्विग्ना विषण्णा च निशाचर
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी

3.020.011

विषादनक्राध्युषिते परित्रासोर्मिमालिनि
किं मां न त्रायसे मग्नां विपुले शोकसागरे

3.020.012

एते च निहता भूमौ रामेण निशितैः शरैः
ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः

3.020.013

मयि ते यद्य् अनुक्रोशो यदि रक्षःसु तेषु च
रामेण यदि शक्तिस् ते तेजो वास्ति निशाचर
दण्डकारण्यनिलयं जहि राक्षसकण्टकम्

3.020.014

यदि रामं ममामित्रम् अद्य त्वं न वधिष्यसि
तव चैवाग्रतः प्राणांस् त्यक्ष्यामि निरपत्रपा

3.020.015

बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य संयुगे
स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे

3.020.016

शूरमानी न शूरस् त्वं मिथ्यारोपितविक्रमः
मानुषौ यन् न शक्नोषि हन्तुं तौ रामलक्ष्मणौ

3.020.017

अपयाहि जनस्थानात् त्वरितः सहबान्धवः
निःसत्त्वस्याल्पवीर्यस्य वासस् ते कीदृशस् त्व् इह

3.020.018

रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि
स हि तेजःसमायुक्तो रामो दशरथात्मजः
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc