भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.019

3.019.001

ततः शूर्पणखा घोरा राघवाश्रमम् आगता
रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया

3.019.002

ते रामं पर्णशालायाम् उपविष्टं महाबलम्
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च

3.019.003

तान् दृष्ट्वा राघवः श्रीमान् आगतां तां च राक्षसीम्
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसं

3.019.004

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः
इमान् अस्या वधिष्यामि पदवीम् आगतान् इह

3.019.005

वाक्यम् एतत् ततः श्रुत्वा रामस्य विदितात्मनः
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्

3.019.006

राघवो ऽपि महच् चापं चामीकरविभूषितम्
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्

3.019.007

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्

3.019.008

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ
वसन्तौ दण्डकारण्ये किमर्थम् उपहिंसथ

3.019.009

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महावने
ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरासनः

3.019.010

तिष्ठतैवात्र संतुष्टा नोपसर्पितुम् अर्हथ
यदि प्राणैर् इहार्थो वो निवर्तध्वं निशाचराः

3.019.011

तस्य तद् वचनं श्रुत्वा राक्षसास् ते चतुर्दश
ऊचुर् वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः

3.019.012

संरक्तनयना घोरा रामं रक्तान्तलोचनम्
परुषा मधुराभाषं हृष्टादृष्टपराक्रमम्

3.019.013

क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः
त्वम् एव हास्यसे प्राणान् अद्यास्माभिर् हतो युधि

3.019.014

का हि ते शक्तिर् एकस्य बहूनां रणमूर्धनि
अस्माकम् अग्रतः स्थातुं किं पुनर् योद्धुम् आहवे

3.019.015

एभिर् बाहुप्रयुक्तैर् नः परिघैः शूलपट्टिशैः
प्राणांस् त्यक्ष्यसि वीर्यं च धनुश् च करपीडितम्

3.019.016

इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश
उद्यतायुधनिस्त्रिंशा रामम् एवाभिदुद्रुवुः
चिक्षिपुस् तानि शूलानि राघवं प्रति दुर्जयम्

3.019.017

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
तावद्भिर् एव चिच्छेद शरैः काञ्चनभूषणैः

3.019.018

ततः पश्चान् महातेजा नाराचान् सूर्यसंनिभान्
जग्राह परमक्रुद्धश् चतुर्दश शिलाशितान्

3.019.019

गृहीत्वा धनुर् आयम्य लक्ष्यान् उद्दिश्य राक्षसान्
मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः

3.019.020

रुक्मपुङ्खाश् च विशिखाः प्रदीप्ता हेमभूषणाः
अन्तरिक्षे महोल्कानां बभूवुस् तुल्यवर्चसः

3.019.021

ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिराप्लुताः
विनिष्पेतुस् तदा भूमौ न्यमज्जन्ताशनिस्वनाः

3.019.022

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः

3.019.023

तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता
परित्रस्ता पुनस् तत्र व्यसृजद् भैरवं रवम्

3.019.024

सा नदन्ती महानादं जवाच् छूर्पणखा पुनः
उपगम्य खरं सा तु किं चित् संशुष्क शोणिता
पपात पुनर् एवार्ता सनिर्यासेव वल्लरी

3.019.025

निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस् ततः
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc