रामायण · अध्याय 3.018
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
बलविक्रमसंपन्ना कामगा कामरूपिणी
इमाम् अवस्थां नीता त्वं केनान्तकसमा गता
देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम्
को ऽयम् एवं महावीर्यस् त्वां विरूपां चकार ह
न हि पश्याम्य् अहं लोके यः कुर्यान् मम विप्रियम्
अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम्
अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः
सलिले क्षीरम् आसक्तं निष्पिबन्न् इव सारसः
निहतस्य मया संख्ये शरसंकृत्तमर्मणः
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
कस्य पत्ररथाः कायान् मांसम् उत्कृत्य संगताः
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः
मयापकृष्टं कृपणं शक्तास् त्रातुं महाहवे
उपलभ्य शनैः संज्ञां तं मे शंसितुम् अर्हसि
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः
ततः शूर्पणखा वाक्यं सबाष्पम् इदम् अब्रवीत्
तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ
देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे
तरुणी रूपसंपन्ना सर्वाभरणभूषिता
दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा
ताभ्याम् उभाभ्यां संभूय प्रमदाम् अधिकृत्य ताम्
इमाम् अवस्थां नीताहं यथानाथासती तथा
तस्याश् चानृजुवृत्तायास् तयोश् च हतयोर् अहम्
सफेनं पातुम् इच्छामि रुधिरं रणमूर्धनि
एष मे प्रथमः कामः कृतस् तात त्वया भवेत्
तस्यास् तयोश् च रुधिरं पिबेयम् अहम् आहवे
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्
व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तकोपमान्
मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
तौ हत्वा तां च दुर्वृत्ताम् उपावर्तितुम् अर्हथ
इयं च रुधिरं तेषां भगिनी मम पास्यति
मनोरथो ऽयम् इष्टो ऽस्या भगिन्या मम राक्षसाः
शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा
इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश
तत्र जग्मुस् तया सार्धं घना वातेरिता यथा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0