रामायण · अध्याय 3.017
तां तु शूर्पणखां रामः कामपाशावपाशिताम्
स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वम् अथाब्रवीत्
कृतदारो ऽस्मि भवति भार्येयं दयिता मम
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता
अनुजस् त्व् एष मे भ्राता शीलवान् प्रियदर्शनः
श्रीमान् अकृतदारश् च लक्ष्मणो नाम वीर्यवान्
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः
अनुरूपश् च ते भर्ता रूपस्यास्य भविष्यति
एनं भज विशालाक्षि भर्तारं भ्रातरं मम
असपत्ना वरारोहे मेरुम् अर्कप्रभा यथा
इति रामेण सा प्रोक्ता राक्षसी काममोहिता
विसृज्य रामं सहसा ततो लक्ष्मणम् अब्रवीत्
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि
एवम् उक्तस् तु सौमित्री राक्षस्या वाक्यकोविदः
ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तम् अब्रवीत्
कथं दासस्य मे दासी भार्या भवितुम् इच्छसि
सो ऽहम् आर्येण परवान् भ्रात्रा कमलवर्णिनी
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी
एतां विरूपाम् असतीं करालां निर्णतोदरीम्
भार्यां वृद्धां परित्यज्य त्वाम् एवैष भजिष्यति
को हि रूपम् इदं श्रेष्ठं संत्यज्य वरवर्णिनि
मानुषेषु वरारोहे कुर्याद् भावं विचक्षणः
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी
मन्यते तद् वचः सत्यं परिहासाविचक्षणा
सा रामं पर्णशालायाम् उपविष्टं परंतपम्
सीतया सह दुर्धर्षम् अब्रवीत् काममोहिता
इमां विरूपाम् असतीं करालां निर्णतोदरीम्
वृद्धां भार्याम् अवष्टभ्य न मां त्वं बहु मन्यसे
अद्येमां भक्षयिष्यामि पश्यतस् तव मानुषीम्
त्वया सह चरिष्यामि निःसपत्ना यथासुखम्
इत्य् उक्त्वा मृगशावाक्षीम् अलातसदृशेक्षणा
अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीम् इव
तां मृत्युपाशप्रतिमाम् आपतन्तीं महाबलः
निगृह्य रामः कुपितस् ततो लक्ष्मणम् अब्रवीत्
क्रूरैर् अनार्यैः सौमित्रे परिहासः कथं चन
न कार्यः पश्य वैदेहीं कथं चित् सौम्य जीवतीम्
इमां विरूपाम् असतीम् अतिमत्तां महोदरीम्
राक्षसीं पुरुषव्याघ्र विरूपयितुम् अर्हसि
इत्य् उक्तो लक्ष्मणस् तस्याः क्रुद्धो रामस्य पश्यतः
उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता
ननाद विविधान् नादान् यथा प्रावृषि तोयदः
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्
ततस् तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता
उपेत्य तं भ्रातरम् उग्रतेजसं पपात भूमौ गगनाद् यथाशनिः
ततः सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवम् आगतं वनम्
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0