भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.016

3.016.001

कृताभिषेको रामस् तु सीता सौमित्रिर् एव च
तस्माद् गोदावरीतीरात् ततो जग्मुः स्वम् आश्रमम्

3.016.002

आश्रमं तम् उपागम्य राघवः सहलक्ष्मणः
कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम् उपागमत्

3.016.003

स रामः पर्णशालायाम् आसीनः सह सीतया
विरराज महाबाहुश् चित्रया चन्द्रमा इव
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः

3.016.004

तदासीनस्य रामस्य कथासंसक्तचेतसः
तं देशं राक्षसी का चिद् आजगाम यदृच्छया

3.016.005

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः
भगिनी रामम् आसाद्य ददर्श त्रिदशोपमम्

3.016.006

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्

3.016.007

रामम् इन्दीवरश्यामं कन्दर्पसदृशप्रभम्
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता

3.016.008

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा

3.016.009

प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी

3.016.010

न्यायवृत्तं सुदुर्वृत्ता प्रियम् अप्रियदर्शना
शरीरजसमाविष्टा राक्षसी रामम् अब्रवीत्

3.016.011

जटी तापसरूपेण सभार्यः शरचापधृक्
आगतस् त्वम् इमं देशं कथं राक्षससेवितम्

3.016.012

एवम् उक्तस् तु राक्षस्या शूर्पणख्या परंतपः
ऋजुबुद्धितया सर्वम् आख्यातुम् उपचक्रमे

3.016.013

आसीद् दशरथो नाम राजा त्रिदशविक्रमः
तस्याहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः

3.016.014

भ्रातायं लक्ष्मणो नाम यवीयान् माम् अनुव्रतः
इयं भार्या च वैदेही मम सीतेति विश्रुता

3.016.015

नियोगात् तु नरेन्द्रस्य पितुर् मातुश् च यन्त्रितः
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम् इहागतः

3.016.016

त्वां तु वेदितुम् इच्छामि कथ्यतां कासि कस्य वा
इह वा किंनिमित्तं त्वम् आगता ब्रूहि तत्त्वतः

3.016.017

साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम

3.016.018

अहं शूर्पणखा नाम राक्षसी कामरूपिणी
अरण्यं विचरामीदम् एका सर्वभयंकरा

3.016.019

रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः
प्रवृद्धनिद्रश् च सदा कुम्भकर्णो महाबलः

3.016.020

विभीषणस् तु धर्मात्मा न तु राक्षसचेष्टितः
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ

3.016.021

तान् अहं समतिक्रान्ता राम त्वापूर्वदर्शनात्
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
चिराय भव भर्ता मे सीतया किं करिष्यसि

3.016.022

विकृता च विरूपा च न सेयं सदृशी तव
अहम् एवानुरूपा ते भार्यारूपेण पश्य माम्

3.016.023

इमां विरूपाम् असतीं करालां निर्णतोदरीम्
अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्

3.016.024

ततः पर्वतशृङ्गाणि वनानि विविधानि च
पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि

3.016.025

इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्
इदं वचनम् आरेभे वक्तुं वाक्यविशारदः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc