रामायण · अध्याय 3.015
वसतस् तस्य तु सुखं राघवस्य महात्मनः
शरद्व्यपाये हेमन्त ऋतुर् इष्टः प्रवर्तते
स कदा चित् प्रभातायां शर्वर्यां रघुनन्दनः
प्रययाव् अभिषेकार्थं रम्यां गोदावरीं नदीम्
प्रह्वः कलशहस्तस् तं सीतया सह वीर्यवान्
पृष्ठतो ऽनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत्
अयं स कालः संप्राप्तः प्रियो यस् ते प्रियंवद
अलंकृत इवाभाति येन संवत्सरः शुभः
नीहारपरुषो लोकः पृथिवी सस्यमालिनी
जलान्य् अनुपभोग्यानि सुभगो हव्यवाहनः
नवाग्रयणपूजाभिर् अभ्यर्च्य पितृदेवताः
कृताग्रयणकाः काले सन्तो विगतकल्मषाः
प्राज्यकामा जनपदाः संपन्नतरगोरसाः
विचरन्ति महीपाला यात्रार्थं विजिगीषवः
सेवमाने दृढं सूर्ये दिशम् अन्तकसेविताम्
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश् च साम्प्रतम्
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः
दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः
मृदुसूर्याः सनीहाराः पटुशीताः समारुताः
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम्
निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः
शीता वृद्धतरायामास् त्रियामा यान्ति साम्प्रतम्
रविसंक्रान्तसौभाग्यस् तुषारारुणमण्डलः
निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते
ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते
सीतेव चातपश्यामा लक्ष्यते न तु शोभते
प्रकृत्या शीतलस्पर्शो हिमविद्धश् च साम्प्रतम्
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः
बाष्पच्छन्नान्य् अरण्यानि यवगोधूमवन्ति च
शोभन्ते ऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः
शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः
मयूखैर् उपसर्पद्भिर् हिमनीहारसंवृतैः
दूरम् अभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः
संरक्तः किं चिद् आपाण्डुर् आतपः शोभते क्षितौ
अवश्यायनिपातेन किं चित् प्रक्लिन्नशाद्वला
वनानां शोभते भूमिर् निविष्टतरुणातपा
अवश्यायतमोनद्धा नीहारतमसावृताः
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः
हिमार्द्रवालुकैस् तीरैः सरितो भान्ति साम्प्रतम्
तुषारपतनाच् चैव मृदुत्वाद् भास्करस्य च
शैत्याद् अगाग्रस्थम् अपि प्रायेण रसवज् जलम्
जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः
नालशेषा हिमध्वस्ता न भान्ति कमलाकराः
अस्मिंस् तु पुरुषव्याघ्र काले दुःखसमन्वितः
तपश् चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे
त्यक्त्वा राज्यं च मानं च भोगांश् च विविधान् बहून्
तपस्वी नियताहारः शेते शीते महीतले
सो ऽपि वेलाम् इमां नूनम् अभिषेकार्थम् उद्यतः
वृतः प्रकृतिभिर् नित्यं प्रयाति सरयूं नदीम्
अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः
कथं त्व् अपररात्रेषु सरयूम् अवगाहते
पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान्
धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः
प्रियाभिभाषी मधुरो दीर्घबाहुर् अरिंदमः
संत्यज्य विविधान् सौख्यान् आर्यं सर्वात्मनाश्रितः
जितः स्वर्गस् तव भ्रात्रा भरतेन महात्मना
वनस्थम् अपि तापस्ये यस् त्वाम् अनुविधीयते
न पित्र्यम् अनुवर्न्तन्ते मातृकं द्विपदा इति
ख्यातो लोकप्रवादो ऽयं भरतेनान्यथाकृतः
भर्ता दशरथो यस्याः साधुश् च भरतः सुतः
कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी
इत्य् एवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके
परिवादं जनन्यास् तम् असहन् राघवो ऽब्रवीत्
न ते ऽम्बा मध्यमा तात गर्हितव्या कथं चन
ताम् एवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु
निश्चितापि हि मे बुद्धिर् वनवासे दृढव्रता
भरतस्नेहसंतप्ता बालिशीक्रियते पुनः
इत्य् एवं विलपंस् तत्र प्राप्य गोदावरीं नदीम्
चक्रे ऽभिषेकं काकुत्स्थः सानुजः सह सीतया
तर्पयित्वाथ सलिलैस् ते पितॄन् दैवतानि च
स्तुवन्ति स्मोदितं सूर्यं देवताश् च समाहिताः
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन
कृताभिषेकस् त्व् अगराजपुत्र्या रुद्रः सनन्दिर् भगवान् इवेशः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0