रामायण · अध्याय 3.014
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्
उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
आगताः स्म यथोद्दिष्टम् अमुं देशं महर्षिणा
अयं पञ्चवटी देशः सौम्य पुष्पितकाननः
सर्वतश् चार्यतां दृष्टिः कानने निपुणो ह्य् असि
आश्रमः कतरस्मिन् नो देशे भवति संमतः
रमते यत्र वैदेही त्वम् अहं चैव लक्ष्मण
तादृशो दृश्यतां देशः संनिकृष्टजलाशयः
वनरामण्यकं यत्र जलरामण्यकं तथा
संनिकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम्
एवम् उक्तस् तु रामेण लक्मणः संयताञ्जलिः
सीता समक्षं काकुत्स्थम् इदं वचनम् अब्रवीत्
परवान् अस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते
स्वयं तु रुचिरे देशे क्रियताम् इति मां वद
सुप्रीतस् तेन वाक्येन लक्ष्मणस्य महाद्युतिः
विमृशन् रोचयाम् आस देशं सर्वगुणान्वितम्
स तं रुचिरम् आक्रम्य देशम् आश्रमकर्मणि
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत्
अयं देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः
इहाश्रमपदं सौम्य यथावत् कर्तुम् अर्हसि
इयम् आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता
यथाख्यातम् अगस्त्येन मुनिना भावितात्मना
इयं गोदावरी रम्या पुष्पितैस् तरुभिर् वृता
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
नातिदूरे न चासन्ने मृगयूथनिपीडिता
मयूरनादिता रम्याः प्रांशवो बहुकन्दराः
दृश्यन्ते गिरयः सौम्य फुल्लैस् तरुभिर् आवृताः
सौवर्णे राजतैस् ताम्रैर् देशे देशे च धातुभिः
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः
सालैस् तालैस् तमालैश् च खर्जूरैः पनसाम्रकैः
नीवारैस् तिमिशैश् चैव पुंनागैश् चोपशोभिताः
चूतैर् अशोकैस् तिलकैश् चम्पकैः केतकैर् अपि
पुष्पगुल्मलतोपेतैस् तैस् तैस् तरुभिर् आवृताः
चन्दनैः स्यन्दनैर् नीपैः पनसैर् लकुचैर् अपि
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः
इदं पुण्यम् इदं मेध्यम् इदं बहुमृगद्विजम्
इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा
एवम् उक्तस् तु रामेण लक्ष्मणः परवीरहा
अचिरेणाश्रमं भ्रातुश् चकार सुमहाबलः
पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्
सुस्तम्भां मस्करैर् दीर्घैः कृतवंशां सुशोभनाम्
स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा
स्नात्वा पद्मानि चादाय सफलः पुनर् आगतः
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि
दर्शयाम् आस रामाय तद् आश्रमपदं कृतम्
स तं दृष्ट्वा कृतं सौम्यम् आश्रमं सह सीतया
राघवः पर्णशालायां हर्षम् आहारयत् परम्
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
अतिस्निग्धं च गाढं च वचनं चेदम् अब्रवीत्
प्रीतो ऽस्मि ते महत् कर्म त्वया कृतम् इदं प्रभो
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम
एवं लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः
तस्मिन् देशे बहुफले न्यवसत् स सुखं वशी
कं चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च
अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0