भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.013

3.013.001

अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः
आससाद महाकायं गृध्रं भीमपराक्रमम्

3.013.002

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति

3.013.003

स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव
उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः

3.013.004

स तं पितृसखं बुद्ध्वा पूजयाम् आस राघवः
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च

3.013.005

रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च
आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम्

3.013.006

पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन्
तान् मे निगदतः सर्वान् आदितः शृणु राघव

3.013.007

कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम्
शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान्

3.013.008

स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः
पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा

3.013.009

दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव
कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः

3.013.010

प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम्
षष्टिर् दुहितरो राम यशस्विन्यो महायशः

3.013.011

कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः
अदितिं च दितिं चैव दनूम् अपि च कालकाम्

3.013.012

ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि
तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत्

3.013.013

पुत्रांस् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत् समान्
अदितिस् तन् मना राम दितिश् च दनुर् एव च

3.013.014

कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन्
अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम

3.013.015

आदित्या वसवो रुद्रा अश्विनौ च परंतप
दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः

3.013.016

तेषाम् इयं वसुमती पुरासीत् सवनार्णवा
दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम

3.013.017

नरकं कालकं चैव कालकापि व्यजायत
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्

3.013.018

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः
उलूकाञ् जनयत् क्रौञ्ची भासी भासान् व्यजायत

3.013.019

श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः
धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः

3.013.020

चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी
शुकी नतां विजज्ञे तु नताया विनता सुता

3.013.021

दशक्रोधवशा राम विजज्ञे ऽप्य् आत्मसंभवाः
मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि

3.013.022

मातङ्गीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा
सर्वलक्षणसंपन्नां सुरसां कद्रुकाम् अपि

3.013.023

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम
ऋष्काश् च मृगमन्दायाः सृमराश् चमरास् तथा

3.013.024

ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम्
तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः

3.013.025

हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः
गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान्

3.013.026

मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यं मनुजर्षभ
दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम्

3.013.027

ततो दुहितरौ राम सुरभिर् देव्य् अजायत
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्

3.013.028

रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान्
सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान्

3.013.029

मनुर् मनुष्याञ् जनयत् कश्यपस्य महात्मनः
ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् च मनुजर्षभ

3.013.030

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा
ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः

3.013.031

सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत
विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा

3.013.032

कद्रूर् नागसहस्क्रं तु विजज्ञे धरणीधरम्
द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च

3.013.033

तस्माज् जातो ऽहम् अरुणात् संपातिश् च ममाग्रजः
जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम

3.013.034

सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे

3.013.035

जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतो ऽभवत्
पितुर् हि शुश्राव सखित्वम् आत्मवाञ् जटायुषा संकथितं पुनः पुनः

3.013.036

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षञ् शलभान् इवानलः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc