भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.012

3.012.001

राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण
अभिवादयितुं यन् मां प्राप्तौ स्थः सह सीतया

3.012.002

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः
व्यक्तम् उत्कण्ठते चापि मैथिली जनकात्मजा

3.012.003

एषा हि सुकुमारी च दुःखैश् च न विमानिता
प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता

3.012.004

यथैषा रमते राम इह सीता तथा कुरु
दुष्करं कृतवत्य् एषा वने त्वाम् अनुगच्छती

3.012.005

एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन
समस्थम् अनुरज्यन्ते विषमस्थं त्यजन्ति च

3.012.006

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा
गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः

3.012.007

इयं तु भवतो भार्या दोषैर् एतैर् विवर्जिताः
श्लाघ्या च व्यपदेश्या च यथा देवी ह्य् अरुन्धती

3.012.008

अलंकृतो ऽयं देशश् च यत्र सौमित्रिणा सह
वैदेह्या चानया राम वत्स्यसि त्वम् अरिंदम

3.012.009

एवम् उक्तस् तु मुनिना राघवः संयताञ्जलिः
उवाच प्रश्रितं वाक्यम् ऋषिं दीप्तम् इवानलम्

3.012.010

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगवः
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति

3.012.011

किं तु व्यादिश मे देशं सोदकं बहुकाननम्
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्

3.012.012

ततो ऽब्रवीन् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम्
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः

3.012.013

इतो द्वियोजने तात बहुमूलफलोदकः
देशो बहुमृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः

3.012.014

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह
रमस्व त्वं पितुर् वाक्यं यथोक्तम् अनुपालयन्

3.012.015

विदितो ह्य् एष वृत्तान्तो मम सर्वस् तवानघ
तपसश् च प्रभावेन स्नेहाद् दशरथस्य च

3.012.016

हृदयस्थश् च ते छन्दो विज्ञातस् तपसा मया
इह वासं प्रतिज्ञाय मया सह तपोवने

3.012.017

अतश् च त्वाम् अहं ब्रूमि गच्छ पञ्चवटीम् इति
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते

3.012.018

स देशः श्लाघनीयश् च नातिदूरे च राघव
गोदावर्याः समीपे च मैथिली तत्र रंस्यते

3.012.019

प्राज्यमूलफलैश् चैव नानाद्विज गणैर् युतः
विविक्तश् च महाबाहो पुण्यो रम्यस् तथैव च

3.012.020

भवान् अपि सदारश् च शक्तश् च परिरक्षणे
अपि चात्र वसन् रामस् तापसान् पालयिष्यसि

3.012.021

एतद् आलक्ष्यते वीर मधुकानां महद् वनम्
उत्तरेणास्य गन्तव्यं न्यग्रोधम् अभिगच्छता

3.012.022

ततः स्थलम् उपारुह्य पर्वतस्याविदूरतः
ख्यातः पञ्चवटीत्य् एव नित्यपुष्पितकाननः

3.012.023

अगस्त्येनैवम् उक्तस् तु रामः सौमित्रिणा सह
सात्कृत्यामन्त्रयाम् आस तम् ऋषिं सत्यवादिनम्

3.012.024

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ
तदाश्रमात् पञ्चवटीं जग्मतुः सह सीतया

3.012.025

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्व् अकातरौ
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc