रामायण · अध्याय 3.011
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः
अगस्त्यशिष्यम् आसाद्य वाक्यम् एतद् उवाच ह
राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया
लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः
अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः
ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात्
द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम्
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः
तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम्
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्
कृताञ्जलिर् उवाचेदं रामागमनम् अञ्जसा
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च
प्रविष्टाव् आश्रमपदं सीतया सह भार्यया
द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ
यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि
ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम्
वैदेहीं च महाभागाम् इदं वचनम् अब्रवीत्
दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः
मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः
प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः
एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना
अभिवाद्याब्रवीच् छिष्यस् तथेति नियताञ्जलिः
ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत्
क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम्
ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः
दर्शयाम् आस काकुत्स्थं सीतां च जनकात्मजाम्
तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन्
प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम्
प्रविवेश ततो रामः सीतया सहलक्ष्मणः
प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन्
स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः
सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च
धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च
ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत्
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं
अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्
एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः
औदार्येणावगच्छामि निधानं तपसाम् इमम्
एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसं
जग्राह परमप्रीतस् तस्य पादौ परंतपः
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः
सीतया सह वैदेह्या तदा राम सलक्ष्मणः
प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः
कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत्
अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः
उवाच रामम् आसीनं प्राञ्जलिं धर्मकोविदम्
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्
राजा सर्वस्य लोकस्य धर्मचारी महारथः
पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः
एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम्
पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत्
इदं दिव्यं महच् चापं हेमवज्रविभूषितम्
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः
दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ
संपूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः
महाराजत कोशो ऽयम् असिर् हेमविभूषितः
अनेन धनुषा राम हत्वा संख्ये महासुरान्
आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम्
तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा
एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम्
दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0