भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.010

3.010.001

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा
पृष्ठतस् तु धनुष्पाणिर् लक्ष्मणो ऽनुजगाम ह

3.010.002

तौ पश्यमानौ विविधाञ् शैलप्रस्थान् वनानि च
नदीश् च विविधा रम्या जग्मतुः सह सीतया

3.010.003

सारसांश् चक्रवाकांश् च नदीपुलिनचारिणः
सरांसि च सपद्मानि युतानि जलजैः खगैः

3.010.004

यूथबद्धांश् च पृषतान् मदोन्मत्तान् विषाणिनः
महिषांश् च वराहांश् च गजांश् च द्रुमवैरिणः

3.010.005

ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे
ददृशुः सहिता रम्यं तटाकं योजनायतम्

3.010.006

पद्मपुष्करसंबाधं गजयूथैर् अलंकृतम्
सारसैर् हंसकादम्बैः संकुलं जलचारिभिः

3.010.007

प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे
गीतवादित्रनिर्घोषो न तु कश् चन दृश्यते

3.010.008

ततः कौतूहलाद् रामो लक्ष्मणश् च महारथः
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे

3.010.009

इदम् अत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने
कौतूहलं महज् जातं किम् इदं साधु कथ्यताम्

3.010.010

तेनैवम् उक्तो धर्मात्मा राघवेण मुनिस् तदा
प्रभावं सरसः कृत्स्नम् आख्यातुम् उपचक्रमे

3.010.011

इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्
निर्मितं तपसा राम मुनिना माण्डकर्णिना

3.010.012

स हि तेपे तपस् तीव्रं माण्डकर्णिर् महामुनिः
दशवर्षसहस्राणि वायुभक्षो जलाश्रय

3.010.013

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः
अब्रुवन् वचनं सर्वे परस्पर समागताः
अस्मकं कस्य चित् स्थानम् एष प्रार्थयते मुनिः

3.010.014

ततः कर्तुं तपोविघ्नं सर्वैर् देवैर् नियोजिताः
प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः

3.010.015

अप्सरोभिस् ततस् ताभिर् मुनिर् दृष्टपरावरः
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये

3.010.016

ताश् चैवाप्सरसः पञ्चमुनेः पत्नीत्वम् आगताः
तटाके निर्मितं तासाम् अस्मिन्न् अन्तर्हितं गृहम्

3.010.017

तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम्
रमयन्ति तपोयोगान् मुनिं यौवनम् आस्थितम्

3.010.018

तासां संक्रीडमानानाम् एष वादित्रनिःस्वनः
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः

3.010.019

आश्चर्यम् इति तस्यैतद् वचनं भावितात्मनः
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः

3.010.020

एवं कथयमानस्य ददर्शाश्रममण्डलम्
कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम्

3.010.021

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः
तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रममण्डले

3.010.022

उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः
जगाम चाश्रमांस् तेषां पर्यायेण तपस्विनाम्

3.010.023

येषाम् उषितवान् पूर्वं सकाशे स महास्त्रवित्
क्व चित् परिदशान् मासान् एकं संवत्सरं क्व चित्

3.010.024

क्व चिच् च चतुरो मासान् पञ्चषट् चापरान् क्व चित्
अपरत्राधिकान् मासान् अध्यर्धम् अधिकं क्व चित्

3.010.025

त्रीन् मासान् अष्टमासांश् च राघवो न्यवसत् सुखम्
तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै
रमतश् चानुकुल्येन ययुः संवत्सरा दश

3.010.026

परिसृत्य च धर्मज्ञो राघवः सह सीतया
सुतीक्ष्णस्याश्रमं श्रीमान् पुनर् एवाजगाम ह

3.010.027

स तम् आश्रमम् आगम्य मुनिभिः प्रतिपूजितः
तत्रापि न्यवसद् रामः कं चित् कालम् अरिंदमः

3.010.028

अथाश्रमस्थो विनयात् कदा चित् तं महामुनिम्
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत्

3.010.029

अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनिसत्तमः
वसतीति मया नित्यं कथाः कथयतां श्रुतम्

3.010.030

न तु जानामि तं देशं वनस्यास्य महत्तया
कुत्राश्रमपदं पुण्यं महर्षेस् तस्य धीमतः

3.010.031

प्रसादात् तत्र भवतः सानुजः सह सीतया
अगस्त्यम् अभिगच्छेयम् अभिवादयितुं मुनिम्

3.010.032

मनोरथो महान् एष हृदि संपरिवर्तते
यद् अहं तं मुनिवरं शुश्रूषेयम् अपि स्वयम्

3.010.033

इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्

3.010.034

अहम् अप्य् एतद् एव त्वां वक्तुकामः सलक्ष्मणम्
अगस्त्यम् अभिगच्छेति सीतया सह राघव

3.010.035

दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् स्वयम् एव ब्रवीषि माम्
अहम् आख्यामि ते वत्स यत्रागस्त्यो महामुनिः

3.010.036

योजनान्य् आश्रमात् तात याहि चत्वारि वै ततः
दक्षिणेन महाञ् श्रीमान् अगस्त्यभ्रातुर् आश्रमः

3.010.037

स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते
बहुपुष्पफले रम्ये नानाशकुनिनादिते

3.010.038

पद्मिन्यो विविधास् तत्र प्रसन्नसलिलाः शिवाः
हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः

3.010.039

तत्रैकां रजनीम् उष्य प्रभाते राम गम्यताम्
दक्षिणां दिशम् आस्थाय वनखण्डस्य पार्श्वतः

3.010.040

तत्रागस्त्याश्रमपदं गत्वा योजनम् अन्तरम्
रमणीये वनोद्देशे बहुपादप संवृते
रंस्यते तत्र वैदेही लक्ष्मणश् च त्वया सह

3.010.041

स हि रम्यो वनोद्देशो बहुपादपसंकुलः
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम्
अद्यैव गमने बुद्धिं रोचयस्व महायशः

3.010.042

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च
प्रतस्थे ऽगस्त्यम् उद्दिश्य सानुजः सह सीतया

3.010.043

पश्यन् वनानि चित्राणि पर्वपांश् चाभ्रसंनिभान्
सरांसि सरितश् चैव पथि मार्गवशानुगाः

3.010.044

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्
इदं परमसंहृष्टो वाक्यं लक्ष्मणम् अब्रवीत्

3.010.045

एतद् एवाश्रमपदं नूनं तस्य महात्मनः
अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्यकर्मणः

3.010.046

यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः
संनताः फलभरेण पुष्पभारेण च द्रुमाः

3.010.047

पिप्पलीनां च पक्वानां वनाद् अस्माद् उपागतः
गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः

3.010.048

तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः
लूनाश् च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः

3.010.049

एतच् च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्
पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते

3.010.050

विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयम् आर्जितैः

3.010.051

तत् सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्
अगस्त्यस्याश्रमो भ्रातुर् नूनम् एष भविष्यति

3.010.052

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
यस्य भ्रात्रा कृतेयं दिक् शरण्या पुण्यकर्मणा

3.010.053

इहैकदा किल क्रूरो वातापिर् अपि चेल्वलः
भ्रातरौ सहिताव् आस्तां ब्राह्मणघ्नौ महासुरौ

3.010.054

धारयन् ब्राह्मणं रूपम् इल्वलः संस्कृतं वदन्
आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः

3.010.055

भ्रातरं संस्कृतं भ्राता ततस् तं मेषरूपिणम्
तान् द्विजान् भोजयाम् आस श्राद्धदृष्टेन कर्मणा

3.010.056

ततो भुक्तवतां तेषां विप्राणाम् इल्वलो ऽब्रवीत्
वातापे निष्क्रमस्वेति स्वरेण महता वदन्

3.010.057

ततो भ्रातुर् वचः श्रुत्वा वातापिर् मेषवन् नदन्
भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत्

3.010.058

ब्राह्मणानां सहस्राणि तैर् एवं कामरूपिभिः
विनाशितानि संहत्य नित्यशः पिशिताशनैः

3.010.059

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा
अनुभूय किल श्राद्धे भक्षितः स महासुरः

3.010.060

ततः संपन्नम् इत्य् उक्त्वा दत्त्वा हस्तावसेचनम्
भ्रातरं निष्क्रमस्वेति इल्वलः सो ऽभ्यभाषत

3.010.061

तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम्
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः

3.010.062

कुतो निष्क्रमितुं शक्तिर् मया जीर्णस्य रक्षसः
भ्रातुस् ते मेष रूपस्य गतस्य यमसादनम्

3.010.063

अथ तस्य वचः श्रुत्वा भ्रातुर् निधनसंश्रितम्
प्रधर्षयितुम् आरेभे मुनिं क्रोधान् निशाचरः

3.010.064

सो ऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः

3.010.065

तस्यायम् आश्रमो भ्रातुस् तटाकवनशोभितः
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्

3.010.066

एवं कथयमानस्य तस्य सौमित्रिणा सह
रामस्यास्तं गतः सूर्यः संध्याकालो ऽभ्यवर्तत

3.010.067

उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि
प्रविवेशाश्रमपदं तम् ऋषिं चाभ्यवादयन्

3.010.068

सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः
न्यवसत् तां निशाम् एकां प्राश्य मूलफलानि च

3.010.069

तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले
भ्रातरं तम् अगस्त्यस्य आमन्त्रयत राघवः

3.010.070

अभिवादये त्वा भगवन् सुखम् अध्युषितो निशाम्
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुम् अग्रजम्

3.010.071

गम्यताम् इति तेनोक्तो जगाम रघुनन्दनः
यथोद्दिष्टेन मार्गेण वनं तच् चावलोकयन्

3.010.072

नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान्
चिरिबिल्वान् मधूकांश् च बिल्वान् अपि च तिन्दुकान्

3.010.073

पुष्पितान् पुष्पिताग्राभिर् लताभिर् अनुवेष्टितान्
ददर्श रामः शतशस् तत्र कान्तारपादपान्

3.010.074

हस्तिहस्तैर् विमृदितान् वानरैर् उपशोभितान्
मत्तैः शकुनिसंघैश् च शतशः प्रतिनादितान्

3.010.075

ततो ऽब्रवीत् समीपस्थं रामो राजीवलोचनः
पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्

3.010.076

स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः
आश्रमो नातिदूरस्थो महर्षेर् भावितात्मनः

3.010.077

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा
आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः

3.010.078

प्राज्यधूमाकुलवनश् चीरमालापरिष्कृतः
प्रशान्तमृगयूथश् च नानाशकुनिनादितः

3.010.079

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा

3.010.080

तस्येदम् आश्रमपदं प्रभावाद् यस्य राक्षसैः
दिग् इयं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते

3.010.081

यदा प्रभृति चाक्रान्ता दिग् इयं पुण्यकर्मणा
तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः

3.010.082

नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः

3.010.083

मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः
संदेशं पालयंस् तस्य विन्ध्यशौलो न वर्धते

3.010.084

अयं दीर्घायुषस् तस्य लोके विश्रुतकर्मणः
अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः

3.010.085

एष लोकार्चितः साधुर् हिते नित्यं रतः सताम्
अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति

3.010.086

आराधयिष्याम्य् अत्राहम् अगस्त्यं तं महामुनिम्
शेषं च वनवासस्य सौम्य वत्स्याम्य् अहं प्रभो

3.010.087

अत्र देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
अगस्त्यं नियताहारं सततं पर्युपासते

3.010.088

नात्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः
नृशंसः कामवृत्तो वा मुनिर् एष तथाविधः

3.010.089

अत्र देवाश् च यक्षाश् च नागाश् च पतगैः सह
वसन्ति नियताहारा धर्मम् आराधयिष्णवः

3.010.090

अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः
त्यक्त्वा देहान् नवैर् देहैः स्वर्याताः परमर्षयः

3.010.091

यक्षत्वम् अमरत्वं च राज्यानि विविधानि च
अत्र देवाः प्रयच्छन्ति भूतैर् आराधिताः शुभैः

3.010.092

आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः
निवेदयेह मां प्राप्तम् ऋषये सह सीतया

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc