भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.009

3.009.001

वाक्यम् एतत् तु वैदेह्या व्याहृतं भर्तृभक्तया
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्

3.009.002

हितम् उक्तं त्वया देवि स्निग्धया सदृशं वचः
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे

3.009.003

किं तु वक्ष्याम्य् अहं देवि त्वयैवोक्तम् इदं वचः
क्षत्रियैर् धार्यते चापो नार्तशब्दो भवेद् इति

3.009.004

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः
मां सीते स्वयम् आगम्य शरण्याः शरणं गताः

3.009.005

वसन्तो धर्मनिरता वने मूलफलाशनाः
न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः

3.009.006

काले काले च निरता नियमैर् विविधैर् वने
भक्ष्यन्ते राक्षसैर् भीमैर् नरमांसोपजीविभिः

3.009.007

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः
अस्मान् अभ्यवपद्येति माम् ऊचुर् द्विजसत्तमाः

3.009.008

मया तु वचनं श्रुत्वा तेषाम् एवं मुखाच् च्युतम्
कृत्वा चरणशुश्रूषां वाक्यम् एतद् उदाहृतम्

3.009.009

प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला
यदीदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः
किं करोमीति च मया व्याहृतं द्विजसंनिधौ

3.009.010

सर्वैर् एव समागम्य वाग् इयं समुदाहृता
राक्षसैर् दण्डकारण्ये बहुभिः कामरूपिभिः
अर्दिताः स्म भृशं राम भवान् नस् त्रातुम् अर्हति

3.009.011

होमकाले तु संप्राप्ते पर्वकालेषु चानघ
धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः

3.009.012

राक्षसैर् धर्षितानां च तापसानां तपस्विनाम्
गतिं मृगयमाणानां भवान् नः परमा गतिः

3.009.013

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्
चिरार्जितं तु नेच्छामस् तपः खण्डयितुं वयम्

3.009.014

बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव
तेन शापं न मुञ्चामो भक्ष्यमाणाश् च राक्षसैः

3.009.015

तद् अर्द्यमानान् रक्षोभिर् दण्डकारण्यवासिभिः
रक्षनस् त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने

3.009.016

मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम्
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे

3.009.017

संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्
मुनीनाम् अन्यथा कर्तुं सत्यम् इष्टं हि मे सदा

3.009.018

अप्य् अहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः

3.009.019

तद् अवश्यं मया कार्यम् ऋषीणां परिपालनम्
अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः

3.009.020

मम स्नेहाच् च सौहार्दाद् इदम् उक्तं त्वया वचः
परितुष्टो ऽस्म्य् अहं सीते न ह्य् अनिष्टो ऽनुशिष्यते
सदृशं चानुरूपं च कुलस्य तव शोभने

3.009.021

इत्य् एवम् उक्त्वा वचनं महात्मा सीतां प्रियां मैथिल राजपुत्रीम्
रामो धनुष्मान् सहलक्ष्मणेन जगाम रम्याणि तपोवनानि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc