रामायण · अध्याय 3.008
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्
वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत्
अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान्
निवृत्तेन च शक्यो ऽयं व्यसनात् कामजाद् इह
त्रीण्य् एव व्यसनान्य् अत्र कामजानि भवन्त्य् उत
मिथ्या वाक्यं परमकं तस्माद् गुरुतराव् उभौ
परदाराभिगमनं विना वैरं च रौद्रता
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
कुतो ऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्
तच् च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन
तृतीयं यद् इदं रौद्रं परप्राणाभिहिंसनम्
निर्वैरं क्रियते मोहात् तच् च ते समुपस्थितम्
प्रतिज्ञातस् त्वया वीर दण्डकारण्यवासिनाम्
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्
एतन्निमित्तं च वनं दण्डका इति विश्रुतम्
प्रस्थितस् त्वं सह भ्रात्रा धृतबाणशरासनः
ततस् त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः
त्वद् वृत्तं चिन्तयन्त्या वै भवेन् निःश्रेयसं हितम्
न हि मे रोचते वीर गमनं दण्डकान् प्रति
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम
त्वं हि बाणधनुष्पाणिर् भ्रात्रा सह वनं गतः
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्
क्षत्रियाणाम् इह धनुर् हुताशस्येन्धनानि च
समीपतः स्थितं तेजोबलम् उच्छ्रयते भृशम्
पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः
कस्मिंश् चिद् अभवत् पुण्ये वने रतमृगद्विजे
तस्यैव तपसो विघ्नं कर्तुम् इन्द्रः शचीपतिः
खड्गपाणिर् अथागच्छद् आश्रमं भट रूपधृक्
तस्मिंस् तद् आश्रमपदे निहितः खड्ग उत्तमः
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः
स तच् छस्त्रम् अनुप्राप्य न्यासरक्षणतत्परः
वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः
यत्र गच्छत्य् उपादातुं मूलानि च फलानि च
न विना याति तं खड्गं न्यासरक्षणतत्परः
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्
ततः स रौद्राभिरतः प्रमत्तो ऽधर्मकर्षितः
तस्य शस्त्रस्य संवासाज् जगाम नरकं मुनिः
स्नेहाच् च बहुमानाच् च स्मारये त्वां न शिक्षये
न कथं चन सा कार्या हृहीतधनुषा त्वया
बुद्धिर् वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्
अपराधं विना हन्तुं लोकान् वीर न कामये
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्
धनुषा कार्यम् एतावद् आर्तानाम् अभिरक्षणम्
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च
व्याविद्धम् इदम् अस्माभिर् देशधर्मस् तु पूज्यताम्
तद् आर्यकलुषा बुद्धिर् जायते शस्त्रसेवनात्
पुनर् गत्वा त्व् अयोध्यायां क्षत्रधर्मं चरिष्यसि
अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोर् मम
यदि राज्यं हि संन्यस्य भवेस् त्वं निरतो मुनिः
धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम्
धर्मेण लभते सर्वं धर्मसारम् इदं जगत्
आत्मानं नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः
प्राप्यते निपुणैर् धर्मो न सुखाल् लभ्यते सुखम्
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने
सर्वं हि विदितं तुभ्यं त्रैलोक्यम् अपि तत्त्वतः
स्त्रीचापलाद् एतद् उदाहृतं मे धर्मं च वक्तुं तव कः समर्थः
विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0