भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.007

3.007.001

रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः
परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत

3.007.002

उत्थाय तु यथाकालं राघवः सह सीतया
उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना

3.007.003

अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ
काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने

3.007.004

उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः
सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन्

3.007.005

सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः
आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः

3.007.006

त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम्
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्

3.007.007

अभ्यनुज्ञातुम् इच्छामः सहैभिर् मुनिपुङ्गवैः
धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः

3.007.008

अविषह्यातपो यावत् सूर्यो नातिविराजिते
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः

3.007.009

तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः
ववन्दे सहसौमित्रिः सीतया सह राघवः

3.007.010

तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः
गाढम् आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत्

3.007.011

अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह
सीतया चानया सार्धं छाययेवानुवृत्तया

3.007.012

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्
एषां तपस्विनां वीर तपसा भावितात्मनाम्

3.007.013

सुप्राज्यफलमूलानि पुष्पितानि वनानि च
प्रशान्तमृगयूथानि शान्तपक्षिगणानि च

3.007.014

फुल्लपङ्कजषडानि प्रसन्नसलिलानि च
कारण्डवविकीर्णानि तटाकानि सरांसि च

3.007.015

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च
रमणीयान्य् अरण्यानि मयूराभिरुतानि च

3.007.016

गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु
आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम

3.007.017

एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः
प्रदक्षिणं मुनिं कृता प्रस्थातुम् उपचक्रमे

3.007.018

ततः शुभतरे तूणी धनुषी चायतेक्षणा
ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः

3.007.019

आबध्य च शुभे तूणी चापे चादाय सस्वने
निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc