रामायण · अध्याय 2.107
ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः
भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत्
नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः
तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना
गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम
रामं प्रतीक्षे राज्याय स हि राजा महायशाः
एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः
सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया
वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत्
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्
अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति
प्रहृष्टवदनः सर्वा मातॄः समभिवाद्य सः
आरुरोह रथं श्रीमाञ् शत्रुघ्नेन समन्वितः
आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः
अग्रतो पुरवस् तत्र वसिष्ठ प्रमुखा द्विजाः
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत्
बलं च तद् अनाहूतं गजाश्वरथसंकुलम्
प्रययौ भरते याते सर्वे च पुरवासिनः
रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः
नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके
ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः
अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह
एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम्
योगक्षेमवहे चेमे पादुके हेमभूषिते
तम् इमं पालयिष्यामि राघवागमनं प्रति
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ
ततो निक्षिप्तभारो ऽहं राघवेण समागतः
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्
राघवाय च संन्यासं दत्त्वेमे वरपादुके
राज्यं चेदम् अयोध्यां च धूतपापो भवामि च
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने
प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम्
एवं तु विलपन् दीनो भरतः स महायशाः
नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह
स वल्कलजटाधारी मुनिवेषधरः प्रभुः
नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा
रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः
भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा
पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0