भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.104

2.104.001

तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्
विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः

2.104.002

अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे

2.104.003

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ
श्रुत्वा वयं हि संभाषाम् उभयोः स्पृहयामहे

2.104.004

ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः
भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः

2.104.005

कुले जात महाप्राज्ञ महावृत्त महायशः
ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे

2.104.006

सदानृणम् इमं रामं वयम् इच्छामहे पितुः
अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः

2.104.007

एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः
राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः

2.104.008

ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः
रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत्

2.104.009

स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया
कृताञ्जलिर् इदं वाक्यं राघवं पुनर् अब्रवीत्

2.104.010

राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम्
कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम्

2.104.011

रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे
पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा

2.104.012

ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः
त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः

2.104.013

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि
शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने

2.104.014

इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा
भृशं संप्रार्थयाम् आस रामम् एवं प्रियं वदः

2.104.015

तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत्
श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम्

2.104.016

आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या
भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि

2.104.017

अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः
सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय

2.104.018

लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत्
अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः

2.104.019

कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम्
न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत्

2.104.020

एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत्
तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम्

2.104.021

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः

2.104.022

सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च
प्रायच्छत् सुमहातेजा भरताय महात्मने

2.104.023

स पादुके ते भरतः प्रतापवान् स्वलंकृते संपरिगृह्य धर्मवित्
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि

2.104.024

अथानुपूर्व्यात् प्रतिपूज्य तं जनं गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ
व्यसर्जयद् राघववंशवर्धनः स्थितः स्वधर्मे हिमवान् इवाचलः

2.104.025

तं मातरो बाष्पगृहीतकण्ठो दुःखेन नामन्त्रयितुं हि शेकुः
स त्व् एव मातॄर् अभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc