भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.096

2.096.001

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च
अभिचक्राम तं देशं रामदर्शनतर्षितः

2.096.002

राजपत्न्यश् च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति
ददृशुस् तत्र तत् तीर्थं रामलक्ष्मणसेवितम्

2.096.003

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता
सुमित्राम् अब्रवीद् दीना याश् चान्या राजयोषितः

2.096.004

इदं तेषाम् अनाथानां क्लिष्टम् अक्लिष्ट कर्मणाम्
वने प्राक् केवलं तीर्थं ये ते निर्विषयी कृताः

2.096.005

इतः सुमित्रे पुत्रस् ते सदा जलम् अतन्द्रितः
स्वयं हरति सौमित्रिर् मम पुत्रस्य कारणात्

2.096.006

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले
पितुर् इङ्गुदिपिण्याकं न्यस्तम् आयतलोचना

2.096.007

तं भूमौ पितुर् आर्तेन न्यस्तं रामेण वीक्ष्य सा
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः

2.096.008

इदम् इक्ष्वाकुनाथस्य राघवस्य महात्मनः
राघवेण पितुर् दत्तं पश्यतैतद् यथाविधि

2.096.009

तस्य देवसमानस्य पार्थिवस्य महात्मनः
नैतद् औपयिकं मन्ये भुक्तभोगस्य भोजनम्

2.096.010

चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि
कथम् इङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः

2.096.011

अतो दुःखतरं लोके न किं चित् प्रतिभाति मा
यत्र रामः पितुर् दद्याद् इङ्गुदीक्षोदम् ऋद्धिमान्

2.096.012

रामेणेङ्गुदिपिण्याकं पितुर् दत्तं समीक्ष्य मे
कथं दुःखेन हृदयं न स्फोटति सहस्रधा

2.096.013

एवम् आर्तां सपत्न्यस् ता जग्मुर् आश्वास्य तां तदा
ददृशुश् चाश्रमे रामं स्वर्गाच् च्युतम् इवामरम्

2.096.014

सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः
आर्ता मुमुचुर् अश्रूणि सस्वरं शोककर्शिताः

2.096.015

तासां रामः समुत्थाय जग्राह चरणाञ् शुभान्
मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः

2.096.016

ताः पाणिभिः सुखस्पर्शैर् मृद्वङ्गुलितलैः शुभैः
प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः

2.096.017

सौमित्रिर् अपि ताः सर्वा मातॄः संप्रेक्ष्य दुःखितः
अभ्यवादयतासक्तं शनै रामाद् अनन्तरम्

2.096.018

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः
वृत्तिं दशरथाज् जाते लक्ष्मणे शुभलक्षणे

2.096.019

सीतापि चरणांस् तासाम् उपसंगृह्य दुःखिता
श्वश्रूणाम् अश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता

2.096.020

तां परिष्वज्य दुःखार्तां माता दुहितरं यथा
वनवासकृशां दीनां कौसल्या वाक्यम् अब्रवीत्

2.096.021

विदेहराजस्य सुता स्नुषा दशरथस्य च
रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने

2.096.022

पद्मम् आतपसंतप्तं परिक्लिष्टम् इवोत्पलम्
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रम् इवाम्बुदैः

2.096.023

मुखं ते प्रेक्ष्य मां शोको दहत्य् अग्निर् इवाश्रयम्
भृशं मनसि वैदेहि व्यसनारणिसंभवः

2.096.024

ब्रुवन्त्याम् एवम् आर्तायां जनन्यां भरताग्रजः
पादाव् आसाद्य जग्राह वसिष्ठस्य स राघवः

2.096.025

पुरोहितस्याग्निसमस्य तस्य वै बृहस्पतेर् इन्द्र इवामराधिपः
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः

2.096.026

ततो जघन्यं सहितैः स मन्त्रिभिः पुरप्रधानैश् च सहैव सैनिकैः
जनेन धर्मज्ञतमेन धर्मवान् उपोपविष्टो भरतस् तदाग्रजम्

2.096.027

उपोपविष्टस् तु तदा स वीर्यवांस् तपस्विवेषेण समीक्ष्य राघवम्
श्रिया ज्वलन्तं भरतः कृताञ्जलिर् यथा महेन्द्रः प्रयतः प्रजापतिम्

2.096.028

किम् एष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलम् उत्तमं तदा

2.096.029

स राघवः सत्यधृतिश् च लक्ष्मणो महानुभावो भरतश् च धार्मिकः
वृताः सुहृद्भिश् च विरेजुर् अध्वरे यथा सदस्यैः सहितास् त्रयो ऽग्नयः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc