भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.095

2.095.001

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति

2.095.002

शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ
ज्येष्ठ पुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः

2.095.003

स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव
अभिषेचय चात्मानं कुलस्यास्य भवाय नः

2.095.004

राजानं मानुषं प्राहुर् देवत्वे संमतो मम
यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम्

2.095.005

केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते
दिवम् आर्य गतो राजा यायजूकः सतां मतः

2.095.006

उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः
अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ

2.095.007

प्रियेण किल दत्तं हि पितृलोकेषु राघव
अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः

2.095.008

तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम्
राघवो भरतेनोक्तां बभूव गतचेतनः

2.095.009

वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः
वने परशुना कृत्तस् तथा भुवि पपात ह

2.095.010

तथा हि पतितं रामं जगत्यां जगतीपतिम्
कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम्

2.095.011

भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम्
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै

2.095.012

स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन्
उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्

2.095.013

किं नु तस्य मया कार्यं दुर्जातेन महात्मना
यो मृतो मम शोकेन न मया चापि संस्कृतः

2.095.014

अहो भरत सिद्धार्थो येन राजा त्वयानघ
शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः

2.095.015

निष्प्रधानाम् अनेकाग्रं नरेन्द्रेण विनाकृताम्
निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे

2.095.016

समाप्तवनवासं माम् अयोध्यायां परंतप
को नु शासिष्यति पुनस् ताते लोकान्तरं गते

2.095.017

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन्
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम्

2.095.018

एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः
उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्

2.095.019

सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण
भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम्

2.095.020

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः

2.095.021

आनयेङ्गुदिपिण्याकं चीरम् आहर चोत्तरम्
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः

2.095.022

सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज
अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा

2.095.023

ततो नित्यानुगस् तेषां विदितात्मा महामतिः
मृदुर् दान्तश् च शान्तश् च रामे च दृढ भक्तिमान्

2.095.024

सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम्
अवातारयद् आलम्ब्य नदीं मन्दाकिनीं शिवाम्

2.095.025

ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्

2.095.026

शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम्
सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति

2.095.027

प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम्
दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्

2.095.028

एतत् ते राजशार्दूल विमलं तोयम् अक्षयम्
पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु

2.095.029

ततो मन्दाकिनी तीरात् प्रत्युत्तीर्य स राघवः
पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह

2.095.030

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे
न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत्

2.095.031

इदं भुङ्क्ष्व महाराजप्रीतो यद् अशना वयम्
यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः

2.095.032

ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्

2.095.033

ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः
परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ

2.095.034

तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ
भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव

2.095.035

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः
अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम्
तेषाम् एव महाञ् शब्दः शोचतां पितरं मृतम्

2.095.036

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम्
अप्य् एक मनसो जग्मुर् यथास्थानं प्रधाविताः

2.095.037

हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः
सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः

2.095.038

अचिरप्रोषितं रामं चिरविप्रोषितं यथा
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्

2.095.039

भ्रातॄणां त्वरितास् ते तु द्रष्टुकामाः समागमम्
ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः

2.095.040

सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता
मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे

2.095.041

तेन वित्रासिता नागाः करेणुपरिवारिताः
आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः

2.095.042

वराहमृगसिंहाश् च महिषाः सर्क्षवानराः
व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह

2.095.043

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः

2.095.044

तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम्
मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा

2.095.045

तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्
पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः

2.095.046

स तत्र कांश् चित् परिषस्वजे नरान् नराश् च के चित् तु तम् अभ्यवादयन्
चकार सर्वान् सवयस्यबान्धवान् यथार्हम् आसाद्य तदा नृपात्मजः

2.095.047

ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन् स्वनः
गुहा गिरीणां च दिशश् च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc