रामायण · अध्याय 2.090
तथा तत्रासतस् तस्य भरतस्योपयायिनः
सैन्य रेणुश् च शब्दश् च प्रादुरास्तां नभः स्पृशौ
एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः
स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः
तांश् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत
तांश् च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम्
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास् त्वया
भीमस्तनितगम्भीरस् तुमुलः श्रूयते स्वनः
राजा वा राजमात्रो वा मृगयाम् अटते वने
अन्यद् वा श्वापदं किं चित् सौमित्रे ज्ञातुम् अर्हसि
सर्वम् एतद् यथातत्त्वम् अचिराज् ज्ञातुम् अर्हसि
स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम्
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशम् अवैक्षत
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्
रथाश्वगजसंबाधां यत्तैर् युक्तां पदातिभिः
ताम् अश्वगजसंपूर्णां रथध्वजविभूषिताम्
शशंस सेनां रामाय वचनं चेदम् अब्रवीत्
अग्निं संशमयत्व् आर्यः सीता च भजतां गुहाम्
सज्यं कुरुष्व चापं च शरांश् च कवचं तथा
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह
अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम्
एवम् उक्क्तस् तु रामेण लक्ष्माणो वाक्यम् अब्रवीत्
दिधक्षन्न् इव तां सेनां रुषितः पावको यथा
संपन्नं राज्यम् इच्छंस् तु व्यक्तं प्राप्याभिषेचनम्
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः
एष वै सुमहाञ् श्रीमान् विटपी संप्रकाशते
विराजत्य् उद्गतस्कन्धः कोविदार ध्वजो रथे
भजन्त्य् एते यथाकामम् अश्वान् आरुह्य शीघ्रगान्
एते भ्राजन्ति संहृष्टा गजान् आरुह्य सादिनः
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे
अथ वेहैव तिष्ठावः संनद्धाव् उद्यतायुधौ
अपि नौ वशम् आगच्छेत् कोविदारध्वजो रणे
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्
त्वया राघव संप्राप्तं सीतया च मया तथा
यन्निमित्तं भवान् राज्याच् च्युतो राघव शाश्वतीम्
संप्राप्तो ऽयम् अरिर् वीर भरतो वध्य एव मे
भरतस्य वधे दोषं नाहं पश्यामि राघव
पूर्वापकारिणां त्यागे न ह्य् अधर्मो विधीयते
एतस्मिन् निहते कृत्स्नाम् अनुशाधि वसुंधराम्
अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका
मया पश्येत् सुदुःखार्ता हस्तिभग्नम् इव द्रुमम्
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्
कलुषेणाद्य महता मेदिनी परिमुच्यताम्
अद्येमं संयतं क्रोधम् असत्कारं च मानद
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्व् इव हुताशनम्
अद्यैतच् चित्रकूटस्य काननं निशितैः शरैः
भिन्दञ् शत्रुशरीराणि करिष्ये शोणितोक्षितम्
शरैर् निर्भिन्नहृदयान् कुञ्जरांस् तुरगांस् तथा
श्वापदाः परिकर्षन्तु नराश् च निहतान् मया
शराणां धनुषश् चाहम् अनृणो ऽस्मि महावने
ससैन्यं भरतं हत्वा भविष्यामि न संशयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0