रामायण · अध्याय 2.088
दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः
विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन्
अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत्
भार्याम् अमरसंकाशः शचीम् इव पुरंदरः
न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः
मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम्
पश्येमम् अचलं भद्रे नानाद्विजगणायुतम्
शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम्
के चिद् रजतसंकाशाः के चित् क्षतजसंनिभाः
पीतमाञ्जिष्ठवर्णाश् च के चिन् मणिवरप्रभाः
पुष्यार्ककेतुकाभाश् च के चिज् ज्योती रसप्रभाः
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः
नानामृगगणद्वीपितरक्ष्वृक्षगणैर् वृतः
अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः
आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः
अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः
काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा
बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः
पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः
एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः
शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान्
किन्नरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः
शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च
पश्य विद्याधरस्त्रीणां क्रीडेद् देशान् मनोरमान्
जलप्रपातैर् उद्भेदैर् निष्यन्दैश् च क्व चित् क्व चित्
स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन्
घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत्
यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति
बहुपुष्पफले रम्ये नानाद्विजगणायुते
विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि
अनेन वनवासेन मया प्राप्तं फलद्वयम्
पितुश् चानृणता धर्मे भरतस्य प्रियं तथा
वैदेहि रमसे कच्चिच् चित्रकूटे मया सह
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान्
इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः
शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः
बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः
निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव
ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः
के चित् क्षयनिभा देशाः के चिद् उद्यानसंनिभाः
के चिद् एकशिला भान्ति पर्वतस्यास्य भामिनि
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः
कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान्
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्
मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः
कामिभिर् वनिते पश्य फलानि विविधानि च
वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून्
पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः
इमं तु कालं वनिते विजह्रिवांस् त्वया च सीते सह लक्ष्मणेन च
रतिं प्रपत्स्ये कुलधर्मवर्धिनीं सतां पथि स्वैर् नियमैः परैः स्थितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0