रामायण · अध्याय 2.086
ततस् तां रजनीम् उष्य भरतः सपरिच्छदः
कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह
तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिम् आगतम्
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत
कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता
समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ
तम् उवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च
आश्रमाद् अभिनिष्क्रन्तम् ऋषिम् उत्तम तेजसं
सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः
तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया
अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः
अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः
आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम
समीपं प्रस्थितं भ्रातुर् मैरेणेक्षस्व चक्षुषा
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः
आचक्ष्व कतमो मार्गः कियान् इति च शंस मे
इति पृष्टस् तु भरतं भ्रातृदर्शनलालसं
प्रत्युवाच महातेजा भरद्वाजो महातपाः
भरतार्धतृतीयेषु योजनेष्व् अजने वने
चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः
उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी
पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना
अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः
ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम्
दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्
प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्
वेपमाना कृशा दीना सह देव्या सुमन्त्रिया
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः
असमृद्धेन कामेन सर्वलोकस्य गर्हिता
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा
तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम्
अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः
विशेषं ज्ञातुम् इच्छामि मातॄणां तव राघव
एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः
उवाच प्राञ्जलिर् भूत्वा वाक्यं वचनकोविदः
याम् इमां भगवन् दीनां शोकान् अशनकर्शिताम्
पितुर् हि महिषीं देवीं देवताम् इव पश्यसि
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्
कौसल्या सुषुवे रामं धातारम् अदितिर् यथा
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे
एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ
यस्याः कृते नरव्याघ्रौ जीवनाशम् इतो गतौ
राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः
ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम्
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्
यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः
इत्य् उक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा
स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत्
भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा
प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत्
न दोषेणावगन्तव्या कैकेयी भरत त्वया
रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्
आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत्
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान्
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः
गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः
जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे
विविधान्य् अपि यानानि महानि च लघूनि च
प्रययुः सुमहार्हाणि पादैर् एव पदातयः
अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः
रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा
स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः
सा प्रयाता महासेना गजवाजिरथाकुला
दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः
सा संप्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसंघान्
महद् वनं तत् प्रविगाहमाना रराज सेना भरतस्य तत्र
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0