रामायण · अध्याय 2.082
तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः
इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम्
अब्रवीज् जननीः सर्वा इह तेन महात्मना
शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम्
महाभागकुलीनेन महाभागेन धीमता
जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति
अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले
प्रासादाग्र विमानेषु वलभीषु च सर्वदा
हैमराजतभौमेषु वरास्तरणशालिषु
पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु
पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च
गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः
मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः
बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः
गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः
अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा
मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः
न नूनं दैवतं किं चित् कालेन बलवत्तरम्
यत्र दाशरथी रामो भूमाव् एवं शयीत सः
विदेहराजस्य सुता सीता च प्रियदर्शना
दयिता शयिता भूमौ स्नुषा दशरथस्य च
इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम्
स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम्
मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा
तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः
उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी
सुकुमारी सती दुःखं न विजानाति मैथिली
सार्वभौम कुले जातः सर्वलोकसुखावहः
सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम्
कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः
सुखभागी च दुःखार्हः शयितो भुवि राघवः
सिद्धार्था खलु वैदेही पतिं यानुगता वनम्
वयं संशयिताः सर्वे हीनास् तेन महात्मना
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा
गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते
न च प्रार्थयते कश् चिन् मनसापि वसुंधराम्
वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम्
शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम्
अपावृतपुरद्वारां राजधानीम् अरक्षिताम्
अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम्
शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतान् इव
अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा
फलमूलाशनो नित्यं जटाचीराणि धारयन्
तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने
तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति
वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति
लक्ष्मणेन सह त्व् आर्यो अयोध्यां पालयिष्यति
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः
अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम्
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यते
ततो ऽनुवत्स्यामि चिराय राघवं वने वसन् नार्हति माम् उपेक्षितुम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0