रामायण · अध्याय 2.077
ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम्
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया
अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः
अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान्
नवनागसहस्राणि कल्पितानि यथाविधि
अन्वयुर् भरतं यान्तम् इक्ष्वाकु कुलनन्दनम्
षष्ठी रथसहस्राणि धन्विनो विविधायुधाः
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम्
शतं सहस्राण्य् अश्वानां समारूढानि राघवम्
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम्
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी
रामानयनसंहृष्टा ययुर् यानेन भास्वता
प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्
तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्
दृष्ट एव हि नः शोकम् अपनेष्यति राघवः
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः
इत्य् एवं कथयन्तस् ते संप्रहृष्टाः कथाः शुभाः
परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा
ये च तत्रापरे सर्वे संमता ये च नैगमाः
रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा
मणि काराश् च ये के चित् कुम्भकाराश् च शोभनाः
सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः
मायूरकाः क्राकचिका रोचका वेधकास् तथा
दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः
सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः
स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा
रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः
शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा
समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः
गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः
सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः
सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः
प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम्
व्यवतिष्ठत सा सेना भरतस्यानुयायिनी
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्
भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः
विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम्
दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः
और्ध्वदेह निमित्तार्थम् अवतीर्योदकं नदीम्
तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः
न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक्
निवेश्य गङ्गाम् अनु तां महानदीं चमूं विधानैः परिबर्ह शोभिनीम्
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0