रामायण · अध्याय 2.078
ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम्
निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत्
महतीयम् अतः सेना सागराभा प्रदृश्यते
नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन्
स एष हि महाकायः कोविदारध्वजो रथे
बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति
अथ दाशरथिं रामं पित्रा राज्याद् विवासितम्
भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति
भर्ता चैव सखा चैव रामो दाशरथिर् मम
तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत
तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम्
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
नावां शतानां पञ्चानां कैवर्तानां शतं शतम्
संनद्धानां तथा यूनां तिष्ठन्त्व् अत्यभ्यचोदयत्
यदा तुष्टस् तु भरतो रामस्येह भविष्यति
सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति
इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च
अभिचक्राम भरतं निषादाधिपतिर् गुहः
तम् आयान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान्
भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत्
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः
कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा
तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम्
उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः
आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीत्
निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम्
निवेदयामस् ते सर्वे स्वके दाशकुले वस
अस्ति मूलं फलं चैव निषादैः समुपाहृतम्
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत्
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0