रामायण · अध्याय 2.070
तम् एवं शोकसंतप्तं भरतं केकयीसुतम्
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः
अलं शोकेन भद्रं ते राजपुत्र महायशः
प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम्
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः
प्रेतकार्याणि सर्वाणि कारयाम् आस धर्मवित्
उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम्
आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम्
निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते
ततो दशरथं पुत्रो विललाप सुदुःखितः
किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे
त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते
विधवा पृथिवी राजंस् त्वया हीना न राजते
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम्
एवं विलपमानं तं भरतं दीनमानसं
अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः
प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशाम्पतेः
तान्य् अव्यग्रं महाबाहो क्रियताम् अविचारितम्
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्
ऋत्विक्पुरोहिताचार्यांस् त्वरयाम् आस सर्वशः
ये त्व् अग्रतो नरेन्द्रस्य अग्न्य् अगाराद् बहिष्कृताः
ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि
शिबिलायाम् अथारोप्य राजानं गतचेतनम्
बाष्पकण्ठा विमनसस् तम् ऊहुः परिचारकाः
हिरण्यं च सुवर्णं च वासांसि विविधानि च
प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः
चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा
देवदारूणि चाहृत्य चितां चक्रुस् तथापरे
गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम्
ततः संवेशयाम् आसुश् चितामध्ये तम् ऋत्विजः
तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः
जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः
शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः
नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा
प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम्
स्त्रियश् च शोकसंतप्ताः कौसल्या प्रमुखास् तदा
क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः
ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः
यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः
कृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश् च
पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0