रामायण · अध्याय 2.067
श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ
भरतो दुःखसंतप्त इदं वचनम् अब्रवीत्
किं नुण्कार्यं हतस्येह मम राज्येन शोचतः
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च
दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः
राजानं प्रेतभावस्थं कृत्वा रामं च तापसं
कुलस्य त्वम् अभावाय कालरात्रिर् इवागता
अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान्
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम
ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम्
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं
प्रस्थाप्य वनवासाय कथं पापे न शोचसि
अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्
लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति
तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम्
अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ
केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे
तं हि नित्यं महाराजो बलवन्तं महाबलः
अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा
सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम्
दम्यो धुरम् इवासाद्य सहेयं केन चौजसा
अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा
सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम्
निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम्
इत्य् एवम् उक्त्वा भरतो महात्मा प्रियेतरैर् वाक्यगणैस् तुदंस् ताम्
शोकातुरश् चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0