रामायण · अध्याय 2.065
स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान्
ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस् तरङ्गिणीम्
शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः
एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्
शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम्
सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्
अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्
यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः
तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम्
राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम्
भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात्
तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत्
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः
सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः
अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम्
अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः
हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्
एकसाले स्थाणुमतीं विनते गोमतीं नदीम्
कलिङ्ग नगरे चापि प्राप्य सालवनं तदा
भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः
वनं च समतीत्याशु शर्वर्याम् अरुणोदये
अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि
अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत्
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी
अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका
यज्वभिर् गुणसंपन्नैर् ब्राह्मणैर् वेदपारगैः
भूयिष्ठम् ऋद्धैर् आकीर्णा राजर्षिवरपालिता
अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान्
समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम्
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः
समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा
तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः
अरण्यभूतेव पुरी सारथे प्रतिभाति मे
न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः
निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्
अनिष्टानि च पापानि पश्यामि विविधानि च
निमित्तान्य् अमनोज्ञानि तेन सीदति ते मनः
द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः
द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ
स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्
सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने
आकारास् तान् अहं सर्वान् इह पश्यामि सारथे
मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्
सस्त्री पुंसं च पश्यामि जनम् उत्कण्ठितं पुरे
इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः
तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम्
दृष्ट्वा पुरीम् इन्द्रपुरी प्रकाशां दुःखेन संपूर्णतरो बभूव
बहूनि पश्यन् मनसो ऽप्रियाणि यान्य् अन्न्यदा नास्य पुरे बभूवुः
अवाक्शिरा दीनमना नहृष्टः पितुर् महात्मा प्रविवेश वेश्म
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0