भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.064

2.064.001

भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्

2.064.002

समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः

2.064.003

पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः
त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया

2.064.004

अत्र विंशतिकोट्यस् तु नृपतेर् मातुलस्य ते
दशकोट्यस् तु संपूर्णास् तथैव च नृपात्मज

2.064.005

प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने
दूतान् उवाच भरतः कामैः संप्रतिपूज्य तान्

2.064.006

कच्चित् सुकुशली राजा पिता दशरथो मम
कच्चिच् चारागता रामे लक्ष्मणे वा महात्मनि

2.064.007

आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी
अरोगा चापि कौसल्या माता रामस्य धीमतः

2.064.008

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या
शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा

2.064.009

आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी
अरोगा चापि कैकेयी माता मे किम् उवाच ह

2.064.010

एवम् उक्तास् तु ते दूता भरतेन महात्मना
ऊचुः संप्रश्रितं वाक्यम् इदं तं भरतं तदा
कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि

2.064.011

भरतश् चापि तान् दूतान् एवम् उक्तो ऽभ्यभाषत
आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम्

2.064.012

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः
दूतैः संचोदितो वाक्यं मातामहम् उवाच ह

2.064.013

राजन् पितुर् गमिष्यामि सकाशं दूतचोदितः
पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि

2.064.014

भरतेनैवम् उक्तस् तु नृपो मातामहस् तदा
तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम्

2.064.015

गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया
मातरं कुशलं ब्रूयाः पितरं च परंतप

2.064.016

पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः
तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ

2.064.017

तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च
अभिसत्कृत्य कैकेयो भरताय धनं ददौ

2.064.018

रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च
सत्कृत्य कैकेयी पुत्रं केकयो धनम् आदिशत्

2.064.019

तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान्
ददाव् अश्वपतिः शीघ्रं भरतायानुयायिनः

2.064.020

ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान्
खराञ् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ

2.064.021

अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान्
दंष्ट्रायुधान् महाकायाञ् शुनश् चोपायनं ददौ

2.064.022

स मातामहम् आपृच्छ्य मातुलं च युधाजितम्
रथम् आरुह्य भरतः शत्रुघ्नसहितो ययौ

2.064.023

रथान् मण्डलचक्रांश् च योजयित्वा परःशतम्
उष्ट्रगोऽश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः

2.064.024

बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैर् अमात्यैः
आदाय शत्रुघ्नम् अपेतशत्रुर् गृहाद् ययौ सिद्ध इवेन्द्रलोकात्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc