रामायण · अध्याय 2.061
व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः
समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः
कात्ययनो गौतमश् च जाबालिश् च महायशाः
एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन्
वसिष्ठम् एवाभिमुखाः श्रेष्ठो राजपुरोहितम्
अतीता शर्वरी दुःखं या नो वर्षशतोपमा
अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे
स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः
लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह
उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ
पुरे राजगृहे रम्ये मातामहनिवेशने
इक्ष्वाकूणाम् इहाद्यैव कश् चिद् राजा विधीयताम्
अराजकं हि नो राष्ट्रं न विनाशम् अवाप्नुयात्
नाराजले जनपदे विद्युन्माली महास्वनः
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते
नाराकके पितुः पुत्रो भार्या वा वर्तते वशे
अराजके धनं नास्ति नास्ति भार्याप्य् अराजके
इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके
नाराजके जनपदे कारयन्ति सभां नराः
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च
नाराजके जनपदे यज्ञशीला द्विजातयः
सत्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः
नाराजके जनपदे प्रभूतनटनर्तकाः
उत्सवाश् च समाजाश् च वर्धन्ते राष्ट्रवर्धनाः
नारजके जनपदे सिद्धार्था व्यवहारिणः
कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः
नाराजके जनपदे वाहनैः शीघ्रगामिभिः
नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः
नाराकजे जनपदे धनवन्तः सुरक्षिताः
शेरते विवृत द्वाराः कृषिगोरक्षजीविनः
नाराजके जनपदे वणिजो दूरगामिनः
गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः
नाराजके जनपदे चरत्य् एकचरो वशी
भावयन्न् आत्मनात्मानं यत्रसायंगृहो मुनिः
नाराजके जनपदे योगक्षेमं प्रवर्तते
न चाप्य् अराजके सेना शत्रून् विषहते युधि
यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम्
अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम्
नाराजके जनपदे स्वकं भवति कस्य चित्
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्
येहि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः
ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः
अहो तम इवेदं स्यान् न प्रज्ञायेत किं चन
राजा चेन् न भवेंल् लोके विभजन् साध्वसाधुनी
जीवत्य् अपि महाराजे तवैव वचनं वयम्
नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः
स नः समीक्ष्य द्विजवर्यवृत्तं नृपं विना राज्यम् अरण्यभूतम्
कुमारम् इक्ष्वाकुसुतं वदान्यं त्वम् एव राजानम् इहाभिषिञ्चय
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0