रामायण · अध्याय 2.060
तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम्
हतप्रभम् इवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम्
कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत
सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम्
त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि
विहाय मां गतो रामो भर्ता च स्वर्गतो मम
विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे
भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः
इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः
न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन्
कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम्
अनियोगे नियुक्तेन राज्ञा रामं विवासितम्
सभार्यं जनकः श्रुत्वा परितप्स्यत्य् अहं यथा
रामः कमलपत्राक्षो जीवनाशम् इतो गतः
विदेहराजस्य सुता तहा सीता तपस्विनी
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति
नदतां भीमघोषाणां निशासु मृगपक्षिणाम्
निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति
वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनिचिन्तयन्
सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्
तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम्
व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः
तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम्
राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम्
न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः
सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम्
तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्
हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन्
बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः
रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन्
निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता
पुरी नाराजतायोध्या हीना राज्ञा महात्मना
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्
गतप्रभा द्यौर् इव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी
पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्गचत्वरा
नराश् च नार्यश् च समेत्य संघशो विगर्हमाणा भरतस्य मातरम्
तदा नगर्यां नरदेवसंक्षये बभूवुर् आर्ता न च शर्म लेभिरे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0