रामायण · अध्याय 2.054
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः
धरण्यां गतसत्त्वेव कौसल्या सूतम् अब्रवीत्
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
तान् विना क्षणम् अप्य् अत्र जीवितुं नोत्सहे ह्य् अहम्
निवर्तय रथं शीघ्रं दण्डकान् नय माम् अपि
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम्
बाष्पवेगौपहतया स वाचा सज्जमानया
इदम् आश्वासयन् देवीं सूतः प्राञ्जलिर् अब्रवीत्
त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा
व्यवधूय च संतापं वने वत्स्यति राघवः
लक्ष्मणश् चापि रामस्य पादौ परिचरन् वने
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
विजने ऽपि वने सीता वासं प्राप्य गृहेष्व् इव
विस्रम्भं लभते ऽभीता रामे संन्यस्त मानसा
नास्या दैन्यं कृतं किं चित् सुसूक्ष्मम् अपि लक्षये
उचितेव प्रवासानां वैदेही प्रतिभाति मा
नगरोपवनं गत्वा यथा स्म रमते पुरा
तथैव रमते सीता निर्जनेषु वनेष्व् अपि
बालेव रमते सीता बालचन्द्रनिभानना
रामा रामे ह्य् अदीनात्मा विजने ऽपि वने सती
तद्गतं हृदयं ह्य् अस्यास् तद् अधीनं च जीवितम्
अयोध्यापि भवेत् तस्या राम हीना तथा वनम्
पथि पृच्छति वैदेही ग्रामांश् च नगराणि च
गतिं दृष्ट्वा नदीनां च पादपान् विविधान् अपि
अध्वना वात वेगेन संभ्रमेणातपेन च
न हि गच्छति वैदेह्याश् चन्द्रांशुसदृशी प्रभा
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्
वदनं तद्वदान्याया वैदेह्या न विकम्पते
अलक्तरसरक्ताभाव् अलक्तरसवर्जितौ
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी
इदानीम् अपि वैदेही तद्रागा न्यस्तभूषणा
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनम् आश्रिता
नाहारयति संत्रासं बाहू रामस्य संश्रिता
न शोच्यास् ते न चात्मा ते शोच्यो नापि जनाधिपः
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः
वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता
न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0