रामायण · अध्याय 2.051
कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह
रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः
अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान्
अयोध्याम् एव नगरीं प्रययौ गाढदुर्मनाः
स वनानि सुगन्धीनि सरितश् च सरांसि च
पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च
ततः सायाह्नसमये तृतीये ऽहनि सारथिः
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह
स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः
सुमन्त्रश् चिन्तयाम् आस शोकवेगसमाहतः
कच्चिन् न सगजा साश्वा सजना सजनाधिपा
रामसंतापदुःखेन दग्धा शोकाग्निना पुरी
इति चिन्तापरः सूतस् त्वरितः प्रविवेश ह
सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः
क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः
तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम्
अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः
अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः
शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम्
हताः स्म खलु ये नेह पश्याम इति राघवम्
दानयज्ञविवाहेषु समाजेषु महत्सु च
न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्
इति रामेण नगरं पितृवत् परिपालितम्
वातायनगतानां च स्त्रीणाम् अन्वन्तरापणम्
रामशोकाभितप्तानां शुश्राव परिदेवनम्
स राजमार्गमध्येन सुमन्त्रः पिहिताननः
यत्र राजा दशरथस् तद् एवोपययौ गृहम्
सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः
ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्
सह रामेण निर्यातो विना रामम् इहागतः
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति
यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम्
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति
सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम्
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनम् आतुलम्
पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डरे गृहे
अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्
स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्त चेतनः
मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः
ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ
सुमित्रया तु सहिता कौसल्या पतितं पतिम्
उत्थापयाम् आस तदा वचनं चेदम् अब्रवीत्
इमं तस्य महाभाग दूतं दुष्करकारिणः
वनवासाद् अनुप्राप्तं कस्मान् न प्रतिभाषसे
अद्येमम् अनयं कृत्वा व्यपत्रपसि राघव
उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता
देव यस्या भयाद् रामं नानुपृच्छसि सारथिम्
नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम्
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि
पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः
ततस् तम् अन्तःपुरनादम् उत्थितं समीक्ष्य वृद्धास् तरुणाश् च मानवाः
स्त्रियश् च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनर् एव संकुलम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0