रामायण · अध्याय 2.047
स तं वृक्षं समासाद्य संध्याम् अन्वास्य पश्चिमाम्
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
अद्येयं प्रथमा रात्रिर् याता जनपदाद् बहिः
या सुमन्त्रेण रहिता तां नोत्कण्ठितुम् अर्हसि
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः
रात्रिं कथं चिद् एवेमां सौमित्रे वर्तयामहे
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः
स तु संविश्य मेदिन्यां महार्हशयनोचितः
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः
ध्रुवम् अद्य महाराजो दुःखं स्वपिति लक्ष्मण
कृतकामा तु कैकेयी तुष्टा भवितुम् अर्हति
सा हि देवी महाराजं कैकेयी राज्यकारणात्
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम्
अनाथश् चैव वृद्धश् च मया चैव विनाकृतः
किं करिष्यति कामात्मा कैकेय्या वशम् आगतः
इदं व्यसनम् आलोक्य राज्ञश् च मतिविभ्रमम्
काम एवार्धधर्माभ्यां गरीयान् इति मे मतिः
को ह्य् अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत्
छन्दानुवर्तिनं पुत्रं तातो माम् इव लक्ष्मण
सुखी बत सभार्यश् च भरतः केकयीसुतः
मुदितान् कोसलान् एको यो भोक्ष्यत्य् अधिराजवत्
स हि सर्वस्य राज्यस्य मुखम् एकं भविष्यति
ताते च वयसातीते मयि चारण्यम् आश्रिते
अर्थधर्मौ परित्यज्य यः कामम् अनुवर्तते
एवम् आपद्यते क्षिप्रं राजा दशरथो यथा
मन्ये दशरथान्ताय मम प्रव्राजनाय च
कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च
अपीदानीं न कैकेयी सौभाग्यमदमोहिता
कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते
मा स्म मत्कारणाद् देवी सुमित्रा दुःखम् आवसेत्
अयोध्याम् इत एव त्वं काले प्रविश लक्ष्मण
अहम् एको गमिष्यामि सीतया सह दण्डकान्
अनाथाया हि नाथस् त्वं कौसल्याया भविष्यसि
क्षुद्रकर्मा हि कैकेयी द्वेषाद् अन्याय्यम् आचरेत्
परिदद्या हि धर्मज्ञे भरते मम मातरम्
नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर् वियोजिताः
जनन्या मम सौमित्रे तद् अप्य् एतद् उपस्थितम्
मया हि चिरपुष्टेन दुःखसंवर्धितेन च
विप्रायुज्यत कौसल्या फलकाले धिग् अस्तु माम्
मा स्म सीमन्तिनी का चिज् जनयेत् पुत्रम् ईदृशम्
सौमित्रे यो ऽहम् अम्बाया दद्मि शोकम् अनन्तकम्
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका
यस्यास् तच् छ्रूयते वाक्यं शुक पादम् अरेर् दश
शोचन्त्याश् चाल्पभाग्याया न किं चिद् उपकुर्वता
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिंदम
अल्पभाग्या हि मे माता कौसल्या रहिता मया
शेते परमदुःखार्ता पतिता शोकसागरे
एको ह्य् अहम् अयोध्यां च पृथिवीं चापि लक्ष्मण
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम्
अधर्मभय भीतश् च परलोकस्य चानघ
तेन लक्ष्मण नाद्याहम् आत्मानम् अभिषेचये
एतद् अन्यच् च करुणं विलप्य विजने बहु
अश्रुपूर्णमुखो रामो निशि तूष्णीम् उपाविशत्
विलप्योपरतं रामं गतार्चिषम् इवानलम्
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः
ध्रुवम् अद्य पुरी राम अयोध्या युधिनां वर
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी
नैतद् औपयिकं राम यद् इदं परितप्यसे
विषादयसि सीतां च मां चैव पुरुषर्षभ
न च सीता त्वया हीना न चाहम् अपि राघव
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इवोद्धृतौ
न हि तातं न शत्रुघ्नं न सुमित्रां परंतप
द्रष्टुम् इच्छेयम् अद्याहं स्वर्गं वापि त्वया विना
स लक्ष्मणस्योत्तम पुष्कलं वचो निशम्य चैवं वनवासम् आदरात्
समाः समस्ता विदधे परंतपः प्रपद्य धर्मं सुचिराय राघवः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0