रामायण · अध्याय 2.046
प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
भास्करोदयकालो ऽयं गता भगवती निशा
असौ सुकृष्णो विहगः कोकिलस् तात कूजति
बर्हिणानां च निर्घोषः श्रूयते नदतां वने
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्
विज्ञाय रामस्य वचः सौमित्रिर् मित्रनन्दनः
गुहम् आमन्त्र्य सूतं च सो ऽतिष्ठद् भ्रातुर् अग्रतः
ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ
जग्मतुर् येन तौ गङ्गां सीतया सह राघवौ
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत्
किम् अहं करवाणीति सूतः प्राञ्जलिर् अब्रवीत्
निवर्तस्वेत्य् उवाचैनम् एतावद् धि कृतं मम
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम्
आत्मानं त्व् अभ्यनुज्ञातम् अवेक्ष्यार्तः स सारथिः
सुमन्त्रः पुरुषव्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत्
नातिक्रान्तम् इदं लोके पुरुषेणेह केन चित्
तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने
न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदयः
मार्दवार्जवयोर् वापि त्वां चेद् व्यसनम् आगतम्
सह राघव वैदेह्या भ्रात्रा चैव वने वसन्
त्वं गतिं प्राप्स्यसे वीर त्रींल् लोकांस् तु जयन्न् इव
वयं खलु हता राम ये तयाप्य् उपवञ्चिताः
कैकेय्या वशम् एष्यामः पापाया दुःखभागिनः
इति ब्रुवन्न् आत्म समं सुमन्त्रः सारथिस् तदा
दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम्
ततस् तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्
रामस् तु मधुरं वाक्यं पुनः पुनर् उवाच तम्
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये
यथा दशरथो राजा मां न शोचेत् तथा कुरु
शोकोपहत चेताश् च वृद्धश् च जगतीपतिः
काम भारावसन्नश् च तस्माद् एतद् ब्रवीमि ते
यद् यद् आज्ञापयेत् किं चित् स महात्मा महीपतिः
कैकेय्याः प्रियकामार्थं कार्यं तद् अविकाङ्क्षया
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः
यद् एषां सर्वकृत्येषु मनो न प्रतिहन्यते
तद् यथा स महाराजो नालीकम् अधिगच्छति
न च ताम्यति दुःखेन सुमन्त्र कुरु तत् तथा
अदृष्टदुःखं राजानं वृद्धम् आर्यं जितेन्द्रियम्
ब्रूयास् त्वम् अभिवाद्यैव मम हेतोर् इदं वचः
नैवाहम् अनुशोचामि लक्ष्मणो न च मैथिली
अयोध्यायाश् च्युताश् चेति वने वत्स्यामहेति वा
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रम् आगतान्
एवम् उक्त्वा तु राजानं मातरं च सुमन्त्र मे
अन्याश् च देवीः सहिताः कैकेयीं च पुनः पुनः
आरोग्यं ब्रूहि कौसल्याम् अथ पादाभिवन्दनम्
सीताया मम चार्यस्य वचनाल् लक्ष्मणस्य च
ब्रूयाश् च हि महाराजं भरतं क्षिप्रम् आनय
आगतश् चापि भरतः स्थाप्यो नृपमते पदे
भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च
अस्मत्संतापजं दुःखं न त्वाम् अभिभविष्यति
भरतश् चापि वक्तव्यो यथा राजनि वर्तसे
तथा मातृषु वर्तेथाः सर्वास्व् एवाविशेषतः
यथा च तव कैकेयी सुमित्रा चाविशेषतः
तथैव देवी कौसल्या मम माता विशेषतः
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः
तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत्
यद् अहं नोपचारेण ब्रूयां स्नेहाद् अविक्लवः
भक्तिमान् इति तत् तावद् वाक्यं त्वं क्षन्तुम् अर्हसि
कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम्
तव तात वियोगेन पुत्रशोकाकुलाम् इव
सरामम् अपि तावन् मे रथं दृष्ट्वा तदा जनः
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी
दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यम् इमं रथम्
सूतावशेषं स्वं सैन्यं हतवीरम् इवाहवे
दूरे ऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्
चिन्तयन्त्यो ऽद्य नूनं त्वां निराहाराः कृताः प्रजाः
आर्तनादो हि यः पौरैर् मुक्तस् तद्विप्रवासने
रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया
नीतो ऽसौ मातुलकुलं संतापं मा कृथा इति
असत्यम् अपि नैवाहं ब्रूयां वचनम् ईदृशम्
कथम् अप्रियम् एवाहं ब्रूयां सत्यम् इदं वचः
मम तावन् नियोगस्थास् त्वद्बन्धुजनवाहिनः
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः
यदि मे याचमानस्य त्यागम् एव करिष्यसि
सरथो ऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया
भविष्यन्ति वने यानि तपोविघ्नकराणि ते
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव
तत् कृतेन मया प्राप्तं रथ चर्या कृतं सुखम्
आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्
प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तरः
प्रीत्याभिहितम् इच्छामि भव मे पत्यनन्तरः
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्य् अहम्
न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा
इमे चापि हया वीर यदि ते वनवासिनः
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः
यद् अनेन रथेनैव त्वां वहेयं पुरीं पुनः
चतुर्दश हि वर्षाणि सहितस्य त्वया वने
क्षणभूतानि यास्यन्ति शतशस् तु ततो ऽन्यथा
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुम् अर्हसि
एवं बहुविधं दीनं याचमानं पुनः पुनः
रामो भृत्यानुकम्पी तु सुमन्त्रम् इदम् अब्रवीत्
जानामि परमां भक्तिं मयि ते भर्तृवत्सल
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीम् इतः
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी
कैकेयी प्रत्ययं गच्छेद् इति रामो वनं गतः
परितुष्टा हि सा देवि वनवासं गते मयि
राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी
भरतारक्षितं स्फीतं पुत्रराज्यम् अवाप्नुयात्
मम प्रियार्थं राज्ञश् च सरथस् त्वं पुरीं व्रज
संदिष्टश् चासि यान् अर्थांस् तांस् तान् ब्रूयास् तथातथा
इत्य् उक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः
गुहं वचनम् अक्लीबं रामो हेतुमद् अब्रवीत्
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरम् आनय
तत् क्षीरं राजपुत्राय गुहः क्षिप्रम् उपाहरत्
लक्ष्मणस्यात्मनश् चैव रामस् तेनाकरोज् जटाः
तौ तदा चीरवसनौ जटामण्डलधारिणौ
अशोभेताम् ऋषिसमौ भ्रातरौ रामलक्ष्मणौ
ततो वैखानसं मार्गम् आस्थितः सहलक्ष्मणः
व्रतम् आदिष्टवान् रामः सहायं गुहम् अब्रवीत्
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा
भवेथा गुह राज्यं हि दुरारक्षतमं मतम्
ततस् तं समनुज्ञाय गुहम् इक्ष्वाकुनन्दनः
जगाम तूर्णम् अव्यग्रः सभार्यः सहलक्ष्मणः
स तु दृष्ट्वा नदीतीरे नावम् इक्ष्वाकुनन्दनः
तितीर्षुः शीघ्रगां गङ्गाम् इदं लक्ष्मणम् अब्रवीत्
आरोह त्वं नर व्याघ्र स्थितां नावम् इमां शनैः
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्
स भ्रातुः शासनं श्रुत्वा सर्वम् अप्रतिकूलयन्
आरोप्य मैथिलीं पूर्वम् आरुरोहात्मवांस् ततः
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः
ततो निषादाधिपतिर् गुहो ज्ञातीन् अचोदयत्
अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्
आस्थाय नावं रामस् तु चोदयाम् आस नाविकान्
ततस् तैश् चोदिता सा नौः कर्णधारसमाहिता
शुभस्फ्यवेगाभिहता शीघ्रं सलिलम् अत्यगात्
मध्यं तु समनुप्राप्य भागीरथ्यास् त्व् अनिन्दिता
वैदेही प्राञ्जलिर् भूत्वा तां नदीम् इदम् अब्रवीत्
पुत्रो दशरथस्यायं महाराजस्य धीमतः
निदेशं पालयत्व् एनं गङ्गे त्वदभिरक्षितः
चतुर्दश हि वर्षाणि समग्राण्य् उष्य कानने
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति
ततस् त्वां देवि सुभगे क्षेमेण पुनर् आगता
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये
त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे
भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने
प्राप्त राज्ये नरव्याघ्र शिवेन पुनर् आगते
गवां शतसहस्राणि वस्त्राण्य् अन्नं च पेशलम्
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया
तथा संभाषमाणा सा सीता गङ्गाम् अनिन्दिता
दक्षिणा दक्षिणं तीरं क्षिप्रम् एवाभ्युपागमत्
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः
अथाब्रवीन् महाबाहुः सुमित्रानन्दवर्धनम्
अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु
पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन्
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति
गतं तु गङ्गापरपारम् आशु रामं सुमन्त्रः प्रततं निरीक्ष्य
अध्वप्रकर्षाद् विनिवृत्तदृष्टिर् मुमोच बाष्पं व्यथितस् तपस्वी
तौ तत्र हत्वा चतुरो महामृगान् वराहम् ऋश्यं पृषतं महारुरुम्
आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर् वनस्पतिम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0