रामायण · अध्याय 2.041
ततस् तु तमसा तीरं रम्यम् आश्रित्य राघवः
सीताम् उद्वीक्ष्य सौमित्रिम् इदं वचनम् अब्रवीत्
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम्
वनवासस्य भद्रं ते स नोत्कण्ठितुम् अर्हसि
पश्य शून्यान्य् अरण्यानि रुदन्तीव समन्ततः
यथानिलयम् आयद्भिर् निलीनानि मृगद्विजैः
अद्यायोध्या तु नगरी राजधानी पितुर् मम
सस्त्रीपुंसा गतान् अस्माञ् शोचिष्यति न संशयः
भरतः खलु धर्मात्मा पितरं मातरं च मे
धर्मार्थकामसहितैर् वाक्यैर् आश्वासयिष्यति
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः
नानुशोचामि पितरं मातरं चापि लक्ष्मण
त्वया कार्यं नरव्याघ्र माम् अनुव्रजता कृतम्
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम्
एतद् धि रोचते मह्यं वन्ये ऽपि विविधे सति
एवम् उक्त्वा तु सौमित्रं सुमन्त्रम् अपि राघवः
अप्रमत्तस् त्वम् अश्वेषु भव सौम्येत्य् उवाच ह
सो ऽश्वान् सुमन्त्रः संयम्य सूर्ये ऽस्तं समुपागते
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिम् उपस्थिताम्
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्
रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह
सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः
कथयाम् आस सूताय रामस्य विविधान् गुणान्
जाग्रतो ह्य् एव तां रात्रिं सौमित्रेर् उदितो रविः
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
गोकुलाकुलतीरायास् तमसाया विदूरतः
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह
उत्थाय तु महातेजाः प्रकृतीस् ता निशाम्य च
अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि
वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्
यथैते नियमं पौराः कुर्वन्त्य् अस्मन्निवर्तने
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
यावद् एव तु संसुप्तास् तावद् एव वयं लघु
रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम्
अतो भूयो ऽपि नेदानीम् इक्ष्वाकुपुरवासिनः
स्वपेयुर् अनुरक्ता मां वृक्षमूलानि संश्रिताः
पौरा ह्य् आत्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः
न तु खल्व् आत्मना योज्या दुःखेन पुरवासिनः
अब्रवील् लक्ष्मणो रामं साक्षाद् धर्मम् इव स्थितम्
रोचते मे महाप्राज्ञ क्षिप्रम् आरुह्यताम् इति
सूतस् ततः संत्वरितः स्यन्दनं तैर् हयोत्तमैः
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्
मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद् वचः
उदङ्मुखः प्रयाहि त्वं रथम् आस्थाय सारथे
मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः
यथा न विद्युः पौरा मां तथा कुरु समाहितः
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
तं स्यन्दनम् अधिष्ठाय राघवः सपरिच्छदः
शीघ्रगाम् आकुलावर्तां तमसाम् अतरन् नदीम्
स संतीर्य महाबाहुः श्रीमाञ् शिवम् अकण्टकम्
प्रापद्यत महामार्गम् अभयं भयदर्शिनाम्
प्रभातायां तु शर्वर्यां पौरास् ते राघवो विना
शोकोपहतनिश्चेष्टा बभूवुर् हतचेतसः
शोकजाश्रुपरिद्यूना वीक्षमाणास् ततस् ततः
आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः
ततो मार्गानुसारेण गत्वा किं चित् क्षणं पुनः
मार्गनाशाद् विषादेन महता समभिप्लुतः
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः
किम् इदं किं करिष्यामो दैवेनोपहता इति
ततो यथागतेनैव मार्गेण क्लान्तचेतसः
अयोध्याम् अगमन् सर्वे पुरीं व्यथितसज्जनाम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0