रामायण · अध्याय 2.040
अनुरक्ता महात्मानं रामं सत्यपरक्रमम्
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजिनि
नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
अयोध्यानिलयानां हि पुरुषाणां महायशाः
बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा
कुर्वाणः पितरं सत्यं वनम् एवान्वपद्यत
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्न् इव
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव
या प्रीतिर् बहुमानश् च मय्य् अयोध्यानिवासिनाम्
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्
स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः
करिष्यति यथावद् वः प्रियाणि च हितानि च
ज्ञानवृद्धो वयोबालो मृदुर् वीर्यगुणान्वितः
अनुरूपः स वो भर्ता भविष्यति भयापहः
स हि राजगुणैर् युक्तो युवराजः समीक्षितः
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
न च तप्येद् यथा चासौ वनवासं गते मयि
महाराजस् तथा कार्यो मम प्रियचिकीर्षया
यथा यथा दाशरथिर् धर्मम् एवास्थितो ऽभवत्
तथा तथा प्रकृतयो रामं पतिम् अकामयन्
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
चकर्षेव गुणैर् बद्ध्वा जनं पुनर् इवासनम्
ते द्विजास् त्रिविधं वृद्धा ज्ञानेन वयसौजसा
वयःप्रकम्पशिरसो दूराद् ऊचुर् इदं वचः
वहन्तो जवना रामं भो भो जात्यास् तुरंगमाः
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
उपवाह्यस् तु वो भर्ता नापवाह्यः पुराद् वनम्
एवम् आर्तप्रलापांस् तान् वृद्धान् प्रलपतो द्विजान्
अवेक्ष्य सहसा रामो रथाद् अवततार ह
पद्भ्याम् एव जगामाथ ससीतः सहलक्ष्मणः
संनिकृष्टपदन्यासो रामो वनपरायणः
द्विजातींस् तु पदातींस् तान् रामश् चारित्रवत्सलः
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
गच्छन्तम् एव तं दृष्ट्वा रामं संभ्रान्तमानसाः
ऊचुः परमसंतप्ता रामं वाक्यम् इदं द्विजाः
ब्राह्मण्यं कृत्स्नम् एतत् त्वां ब्रह्मण्यम् अनुगच्छति
द्विजस्कन्धाधिरूढास् त्वाम् अग्नयो ऽप्य् अनुयान्त्य् अमी
वाजपेयसमुत्थानि छत्राण्य् एतानि पश्य नः
पृष्ठतो ऽनुप्रयातानि हंसान् इव जलात्यये
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
एभिश् छायां करिष्यामः स्वैश् छत्रैर् वाजपेयिकैः
या हि नः सततं बुद्धिर् वेदमन्त्रानुसारिणी
त्वत्कृते सा कृता वत्स वनवासानुसारिणी
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परं धनम्
वत्स्यन्त्य् अपि गृहेष्व् एव दाराश् चारित्ररक्षिताः
न पुनर् निश्चयः कार्यस् त्वद्गतौ सुकृता मतिः
त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मम् अवेक्षितुम्
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः
शिरोभिर् निभृताचार महीपतनपांशुलैः
बहूनां वितता यज्ञा द्विजानां य इहागताः
तेषां समाप्तिर् आयत्ता तव वत्स निवर्तने
भक्तिमन्ति हि भूतानि जंगमाजंगमानि च
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय
अनुगंतुम् अशक्तास् त्वां मूलैर् उद्धृतवेगिभिः
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
पक्षिणो ऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने
ददृशे तमसा तत्र वारयन्तीव राघवम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0