रामायण · अध्याय 2.039
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यम् अब्रवीत्
तवार्ये सद्गुणैर् युक्तः पुत्रः स पुरुषोत्तमः
किं ते विलपितेनैवं कृपणं रुदितेन वा
यस् तवार्ये गतः पुत्रस् त्यक्त्वा राज्यं महाबलः
साधु कुर्वन् महात्मानं पितरं सत्यवादिनाम्
शिष्टैर् आचरिते सम्यक् शश्वत् प्रेत्य फलोदये
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन
वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदानघः
दयावान् सर्वभूतेषु लाभस् तस्य महात्मनः
अरण्यवासे यद् दुःखं जानती वै सुखोचिता
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्
कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः
दमसत्यव्रतपरः किं न प्राप्तस् तवात्मजः
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यम् उत्तमम्
न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः
राघवं युक्तशीतोष्णः सेविष्यति सुखो ऽनिलः
शयानम् अनघं रात्रौ पितेवाभिपरिष्वजन्
रश्मिभिः संस्पृशञ् शीतैश् चन्द्रमा ह्लादयिष्यति
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः
क्षिप्रं तिसृभिर् एताभिः सह रामो ऽभिषेक्ष्यते
दुःखजं विसृजन्त्य् अस्रं निष्क्रामन्तम् उदीक्ष्य यम्
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रम् आनन्दजं पयः
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी
पुत्रस् ते वरदः क्षिप्रम् अयोध्यां पुनर् आगतः
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
निशम्य तल् लक्ष्मणमातृवाक्यं रामस्य मातुर् नरदेवपत्न्याः
सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0