रामायण · अध्याय 2.035
अथ रामश् च सीता च लक्ष्मणश् च कृताञ्जलिः
उपसंगृह्य राजानं चक्रुर् दीनाः प्रदक्षिणम्
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह
राघवः शोकसंमूढो जननीम् अभ्यवादयत्
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत्
अथ मातुः सुमित्राया जग्राह चरणौ पुनः
तं वन्दमानं रुदती माता सौमित्रिम् अब्रवीत्
हितकामा महाबाहुं मूर्ध्न्य् उपाघ्राय लक्ष्मणम्
सृष्टस् त्वं वनवासाय स्वनुरक्तः सुहृज्जने
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
व्यसनी वा समृद्धो वा गतिर् एष तवानघ
एष लोके सतां धर्मो यज् ज्येष्ठवशगो भवेत्
इदं हि वृत्तम् उचितं कुलस्यास्य सनातनम्
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्
अयोध्याम् अटवीं विद्धि गच्छ तात यथासुखम्
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर् वाक्यम् अब्रवीत्
विनीतो विनयज्ञश् च मातलिर् वासवं यथा
रथम् आरोह भद्रं ते राजपुत्र महायशः
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया
तान्य् उपक्रमितव्यानि यानि देव्यासि चोदितः
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा
आरुरोह वरारोहा कृत्वालंकारम् आत्मनः
तथैवायुधजातानि भ्रातृभ्यां कवचानि च
रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत्
सीतातृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत्
सुमन्त्रः संमतान् अश्वान् वायुवेगसमाञ् जवे
प्रयाते तु महारण्यं चिररात्राय राघवे
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
तत् समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम्
हयशिञ्जितनिर्घोषं पुरम् आसीन् महास्वनम्
ततः सबालवृद्धा सा पुरी परमपीडिता
रामम् एवाभिदुद्राव घर्मार्तः सलिलं यथा
पार्श्वतः पृष्ठतश् चापि लम्बमानास् तदुन्मुखाः
बाष्पपूर्णमुखाः सर्वे तम् ऊचुर् भृशदुःखिताः
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः
मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति
आयसं हृदयं नूनं राममातुर् असंशयम्
यद् देवगर्भप्रतिमे वनं याति न भिद्यते
कृतकृत्या हि वैदेही छायेवानुगता पतिम्
न जहाति रता धर्मे मेरुम् अर्कप्रभा यथा
अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम्
भ्रातरं देवसंकाशं यस् त्वं परिचरिष्यसि
महत्य् एषा हि ते सिद्धिर् एष चाभ्युदयो महान्
एष स्वर्गस्य मार्गश् च यद् एनम् अनुगच्छसि
एवं वदन्तस् ते सोढुं न शेकुर् बाष्पम् आगतम्
अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीनचेतनः
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः
यथा नादः करेणूनां बद्धे महति कुञ्जरे
पिता च राजा काकुत्स्थः श्रीमान् सन्नस् तदा बभौ
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
हा रामेति जनाः के चिद् राममातेति चापरे
अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन्
अन्वीक्षमाणो रामस् तु विषण्णं भ्रान्तचेतसं
राजानं मातरं चैव ददर्शानुगतौ पथि
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत
पदातिनौ च यानार्हाव् अदुःखार्हौ सुखोचितौ
दृष्ट्वा संचोदयाम् आस शीघ्रं याहीति सारथिम्
न हि तत् पुरुषव्याघ्रो दुःखदं दर्शनं पितुः
मातुश् च सहितुं शक्तस् तोत्रार्दित इव द्विपः
तथा रुदन्तीं कौसल्यां रथं तम् अनुधावतीम्
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम्
तिष्ठेति राजा चुक्रोष याहि याहीति राघवः
सुमन्त्रस्य बभूवात्मा चक्रयोर् इव चान्तरा
नाश्रौषम् इति राजानम् उपालब्धो ऽपि वक्ष्यसि
चिरं दुःखस्य पापिष्ठम् इति रामस् तम् अब्रवीत्
रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तं जनम्
व्रजतो ऽपि हयाञ् शीघ्रं चोदयाम् आस सारथिः
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्
मनसाप्य् अश्रुवेगैश् च न न्यवर्तत मानुषम्
यम् इच्छेत् पुनर् आयान्तं नैनं दूरम् अनुव्रजेत्
इत्य् अमात्या महाराजम् ऊचुर् दशरथं वचः
तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः
निशम्य राजा कृपणः सभार्यो व्यवस्थितस् तं सुतम् ईक्षमाणः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0