रामायण · अध्याय 2.034
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्
समीक्ष्य सह भार्याभी राजा विगतचेतनः
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्
न चैनम् अभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः
स मुहूर्तम् इवासंज्ञो दुःखितश् च महीपतिः
विललाप महाबाहू रामम् एवानुचिन्तयन्
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः
प्राणिनो हिंसिता वापि तस्माद् इदम् उपस्थितम्
न त्व् एवानागते काले देहाच् च्यवति जीवितम्
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते
यो ऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्
विहाय वसने सूक्ष्मे तापसाच्छादम् आत्मजम्
एकस्याः खलु कैकेय्याः कृते ऽयं क्लिश्यते जनः
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्व् इमाम्
एवम् उक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह
रामेति सकृद् एवोक्त्वा व्याहर्तुं न शशाक ह
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः
नेत्राभ्याम् अश्रुपूर्णाभ्यां सुमन्त्रम् इदम् अब्रवीत्
औपवाह्यं रथं युक्त्वा त्वम् आयाहि हयोत्तमैः
प्रापयैनं महाभागम् इतो जनपदात् परम्
एवं मन्ये गुणवतां गुणानां फलम् उच्यते
पित्रा मात्रा च यत् साधुर् वीरो निर्वास्यते वनम्
राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्रविक्रमः
योजयित्वाययौ तत्र रथम् अश्वैर् अलंकृतम्
तं रथं राजपुत्राय सूतः कनकभूषितम्
आचचक्षे ऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
राजा सत्वरम् आहूय व्यापृतं वित्तसंचये
उवाच देशकालज्ञो निश्चितं सर्वतः शुचि
वासांसि च महार्हाणि भूषणानि वराणि च
वर्षाण्य् एतानि संख्याय वैदेह्याः क्षिप्रम् आनय
नरेन्द्रेणैवम् उक्तस् तु गत्वा कोशगृहं ततः
प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत्
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्
भूषयाम् आस गात्राणि तैर् विचित्रैर् विभूषणैः
व्यराजयत वैदेही वेश्म तत् सुविभूषिता
उद्यतो ऽंशुमतः काले खं प्रभेव विवस्वतः
तां भुजाभ्यां परिष्वज्य श्वश्रूर् वचनम् अब्रवीत्
अनाचरन्तीं कृपणं मूध्न्य् उपाघ्राय मैथिलीम्
असत्यः सर्वलोके ऽस्मिन् सततं सत्कृताः प्रियैः
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम
तव दैवतम् अस्त्व् एष निर्धनः सधनो ऽपि वा
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्
कृताञ्जलिर् उवाचेदं श्वश्रूम् अभिमुखे स्थिता
करिष्ये सर्वम् एवाहम् आर्या यद् अनुशास्ति माम्
अभिज्ञास्मि यथा भर्तुर् वर्तितव्यं श्रुतं च मे
न माम् असज्जनेनार्या समानयितुम् अर्हति
धर्माद् विचलितुं नाहम् अलं चन्द्राद् इव प्रभा
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः
नापतिः सुखम् एधते या स्याद् अपि शतात्मजा
मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य हि दातारं भर्तारं का न पूजयेत्
साहम् एवंगता श्रेष्ठा श्रुतधर्मपरावरा
आर्ये किम् अवमन्येयं स्त्रीणां भर्ता हि दैवतम्
सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्
तां प्राञ्जलिर् अभिक्रम्य मातृमध्ये ऽतिसत्कृताम्
रामः परमधर्मज्ञो मातरं वाक्यम् अब्रवीत्
अम्ब मा दुःखिता भूस् त्वं पश्य त्वं पितरं मम
क्षयो हि वनवासस्य क्षिप्रम् एव भविष्यति
सुप्तायास् ते गमिष्यन्ति नववर्षाणि पञ्च च
सा समग्रम् इह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्
एतावद् अभिनीतार्थम् उक्त्वा स जननीं वचः
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः
ताश् चापि स तथैवार्ता मातॄर् दशरथात्मजः
धर्मयुक्तम् इदं वाक्यं निजगाद कृताञ्जलिः
संवासात् परुषं किं चिद् अज्ञानाद् वापि यत् कृतम्
तन् मे समनुजानीत सर्वाश् चामन्त्रयामि वः
जज्ञे ऽथ तासां संनादः क्रौञ्चीनाम् इव निःस्वनः
मानवेन्द्रस्य भार्याणाम् एवं वदति राघवे
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा
विलपित परिदेवनाकुलं व्यसनगतं तद् अभूत् सुदुःखितम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0