रामायण · अध्याय 2.033
महामात्रवचः श्रुत्वा रामो दशरथं तदा
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः
किं कार्यम् अनुयात्रेण त्यक्तसङ्गस्य सर्वतः
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते
सर्वाण्य् एवानुजानामि चीराण्य् एवानयन्तु मे
खनित्रपिटके चोभे ममानयत गच्छतः
चतुर्दश वने वासं वर्षाणि वसतो मम
अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम्
उवाच परिधत्स्वेति जनौघे निरपत्रपा
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते
सूक्ष्मवस्त्रम् अवक्षिप्य मुनिवस्त्राण्य् अवस्त ह
लक्ष्मणश् चापि तत्रैव विहाय वसने शुभे
तापसाच् छादने चैव जग्राह पितुर् अग्रतः
अथात्मपरिधानार्थं सीता कौशेयवासिनी
समीक्ष्य चीरं संत्रस्ता पृषती वागुराम् इव
सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः
गन्धर्वराजप्रतिमं भर्तारम् इदम् अब्रवीत्
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः
कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना
तस्थौ ह्य् अकुषला तत्र व्रीडिता जनकात्मज
तस्यास् तत् क्षिप्रम् आगम्य रामो धर्मभृतां वरः
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्
तस्यां चीरं वसानायां नाथवत्याम् अनाथवत्
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्व् इति
स निःश्वस्योष्णम् ऐक्ष्वाकस् तां भार्याम् इदम् अब्रवीत्
कैकेयि कुशचीरेण न सीता गन्तुम् अर्हति
ननु पर्याप्तम् एतत् ते पापे रामविवासनम्
किम् एभिः कृपणैर् भूयः पातकैर् अपि ते कृतैः
एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्
अवाक्शिरसम् आसीनम् इदं वचनम् अब्रवीत्
इयं धार्मिक कौसल्या मम माता यशस्विनी
वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते
मया विहीनां वरद प्रपन्नां शोकसागरम्
अदृष्टपूर्वव्यसनां भूयः संमन्तुम् अर्हसि
इमां महेन्द्रोपमजातगर्भिणीं तथा विधातुं जनमीं ममार्हसि
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0