रामायण · अध्याय 2.021
तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठम् अब्रवीत्
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः
मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत्
यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते
कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम्
क एतच् छ्रद्दधेच् छ्रुत्वा कस्य वा न भवेद् भयम्
गुणवान् दयितो राज्ञो राघवो यद् विवास्यते
त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान्
प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति
अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि
तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः
श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्
कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः
स भवत्या न कर्तव्यो मनसापि विगर्हितः
यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः
शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः
एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना
तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम्
एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः
भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम्
मया चैव भवत्या च कर्तव्यं वचनं पितुः
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः
इमानि तु महारण्ये विहृत्य नव पञ्च च
वर्षाणि परमप्रीतः स्थास्यामि वचने तव
एवम् उक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा
उवाच परमार्ता तु कौसल्या पुत्रवत्सला
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्
नय माम् अपि काकुत्स्थ वनं वन्यं मृगीं यथा
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया
तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत्
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः
भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः
भवतीम् अनुवर्तेत स हि धर्मरतः सदा
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः
श्रमं नावाप्नुयात् किं चिद् अप्रमत्ता तथा कुरु
व्रतोपवासनिरता या नारी परमोत्तमा
भर्तारं नानुवर्तेत सा च पापगतिर् भवेत्
शुश्रूषम् एव कुर्वीत भर्तुः प्रियहिते रता
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः
पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्
एवम् उक्ता तु रामेण बाष्पपर्याकुलेक्षणा
कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत्
गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0