रामायण · अध्याय 2.022
सापनीय तम् आयासम् उपस्पृश्य जलं शुचि
चकार माता रामस्य मङ्गलानि मनस्विनी
स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा
ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः
दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा
स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः
स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः
सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः
नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः
महावनानि चरतो मुनिवेषस्य धीमतः
प्लवगा वृश्चिका दंशा मशकाश् चैव कानने
सरीसृपाश् च कीटाश् च मा भूवन् गहने तव
महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः
मा च त्वां हिंसिषुः पुत्र मया संपूजितास् त्व् इह
आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः
सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक
स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः
सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः
सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः
ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम्
इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी
स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना
यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्
यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा
अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्
चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम्
अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम्
पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः
अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश् च राघव
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि
प्रदक्षिणं चैव चकार राघवं पुनः पुनश् चापि निपीड्य सस्वजे
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश् चरणौ पुनः पुनः
जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0