रामायण · अध्याय 2.018
तथा तु विलपन्तीं तां कौसल्यां राममातरम्
उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः
न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम्
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः
विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः
नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः
नास्यापराधं पश्यामि नापि दोषं तथा विधम्
येन निर्वास्यते राष्ट्राद् वनवासाय राघवः
न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः
अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत्
देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम्
अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात्
तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः
पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन्
यावद् एव न जानाति कश् चिद् अर्थम् इमं नरः
तावद् एव मया सार्धम् आत्मस्थं कुरु शासनम्
मया पार्श्वे सधनुषा तव गुप्तस्य राघव
कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ
करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये
भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति
सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते
त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम्
कस्य शक्तिः श्रियं दातुं भरतायारिशासन
अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते
प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः
देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः
उवाच रामं कौसल्या रुदन्ती शोकलालसा
भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया
यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्
विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि
शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम्
शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन्
परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः
यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम्
त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम्
त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा
त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम्
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्
अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम्
ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्
ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः
उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम
प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम्
ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा
गौर् हता जानता धर्मं कण्डुनापि विपश्चिता
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः
खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः
जामदग्न्येन रामेण रेणुका जननी स्वयम्
कृत्ता परशुनारण्ये पितुर् वचनकारिणा
न खल्व् एतन् मयैकेन क्रियते पितृशासनम्
पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते
तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा
पितुर् हि वचनं कुर्वन् न कश् चिन् नाम हीयते
ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत्
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम्
अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्
धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम्
संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा
न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता
सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम्
पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः
तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्
धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम्
तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः
अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम्
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे
तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम्
यशो ह्य् अहं केवलराज्यकारणान् न पृष्ठतः कर्तुम् अलं महोदयम्
अदीर्घकाले न तु देवि जीविते वृणे ऽवराम् अद्य महीम् अधर्मतः
प्रसादयन् नरवृषभः स मातरं पराक्रमाज् जिगमिषुर् एव दण्डकान्
अथानुजं भृशम् अनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0