भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 2.017

2.017.001

रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः
जगाम सहितो भ्रात्रा मातुर् अन्तःपुरं वशी

2.017.002

सो ऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्
उपविष्टं गृहद्वारि तिष्ठतश् चापरान् बहून्

2.017.003

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः
ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान्

2.017.004

प्रणम्य रामस् तान् वृद्धांस् तृतीयायां ददर्श सः
स्त्रियो वृद्धाश् च बालाश् च द्वाररक्षणतत्पराः

2.017.005

वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहं स्त्रियः
न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा

2.017.006

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता
प्रभाते त्व् अकरोत् पूजां विष्णोः पुत्रहितैषिणी

2.017.007

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा
अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला

2.017.008

प्रविश्य च तदा रामो मातुर् अन्तःपुरं शुभम्
ददर्श मातरं तत्र हावयन्तीं हुताशनम्

2.017.009

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम् आगतम्
अभिचक्राम संहृष्टा किशोरं वडवा यथा

2.017.010

तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः
कौसल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः

2.017.011

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्
प्राप्नुह्य् आयुश् च कीर्तिं च धर्मं चोपहितं कुले

2.017.012

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव
अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति

2.017.013

मातरं राघवः किं चित् प्रसार्याञ्जलिम् अब्रवीत्
स स्वभावविनीतश् च गौरवाच् च तदानतः

2.017.014

देवि नूनं न जानीषे महद् भयम् उपस्थितम्
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च

2.017.015

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने
मधुमूलफलैर् जीवन् हित्वा मुनिवद् आमिषम्

2.017.016

भरताय महाराजो यौवराज्यं प्रयच्छति
मां पुनर् दण्डकारण्यं विवासयति तापसं

2.017.017

ताम् अदुःखोचितां दृष्ट्वा पतितां कदलीम् इव
रामस् तूत्थापयाम् आस मातरं गतचेतसं

2.017.018

उपावृत्योत्थितां दीनां वडवाम् इव वाहिताम्
पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना

2.017.019

सा राघवम् उपासीनम् असुखार्ता सुखोचिता
उवाच पुरुषव्याघ्रम् उपशृण्वति लक्ष्मणे

2.017.020

यदि पुत्र न जायेथा मम शोकाय राघव
न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा

2.017.021

एक एव हि वन्ध्यायाः शोको भवति मानवः
अप्रजास्मीति संतापो न ह्य् अन्यः पुत्र विद्यते

2.017.022

न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
अपि पुत्रे विपश्येयम् इति रामास्थितं मया

2.017.023

सा बहून्य् अमनोज्ञानि वाक्यानि हृदयच्छिदाम्
अहं श्रोष्ये सपत्नीनाम् अवराणां वरा सती
अतो दुःखतरं किं नु प्रमदानां भविष्यति

2.017.024

त्वयि संनिहिते ऽप्य् एवम् अहम् आसं निराकृता
किं पुनः प्रोषिते तात ध्रुवं मरणम् एव मे

2.017.025

यो हि मां सेवते कश् चिद् अथ वाप्य् अनुवर्तते
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो नाभिभाषते

2.017.026

दश सप्त च वर्षाणि तव जातस्य राघव
अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्

2.017.027

उपवासैश् च योगैश् च बहुभिश् च परिश्रमैः
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया

2.017.028

स्थिरं तु हृदयं मन्ये ममेदं यन् न दीर्यते
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा

2.017.029

ममैव नूनं मरणं न विद्यते न चावकाशो ऽस्ति यमक्षये मम
यद् अन्तको ऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीम् इव

2.017.030

स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नावदीर्यते
अनेन दुःखेन च देहम् अर्पितं ध्रुवं ह्य् अकाले मरणं न विद्यते

2.017.031

इदं तु दुःखं यद् अनर्थकानि मे व्रतानि दानानि च संयमाश् च हि
तपश् च तप्तं यद् अपत्यकारणात् सुनिष्फलं बीजम् इवोप्तम् ऊषरे

2.017.032

यदि ह्य् अकाले मरणं स्वयेच्छया लभेत कश् चिद् गुरु दुःख कर्शितः
गताहम् अद्यैव परेत संसदं विना त्वया धेनुर् इवात्मजेन वै

2.017.033

भृशम् असुखम् अमर्षिता तदा बहु विललाप समीक्ष्य राघवम्
व्यसनम् उपनिशाम्य सा महत् सुतम् इव बद्धम् अवेक्ष्य किंनरी

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc