रामायण · अध्याय 2.016
स ददर्शासने रामो निषण्णं पितरं शुभे
कैकेयीसहितं दीनं मुखेन परिशुष्यता
स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत्
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः
रामेत्य् उक्त्वा च वचनं वाष्पपर्याकुलेक्षणः
शशाक नृपतिर् दीनो नेक्षितुं नाभिभाषितुम्
तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम्
रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम्
इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम्
निःश्वसन्तं महाराजं व्यथिताकुलचेतसं
ऊर्मि मालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम्
उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा
अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन्
बभूव संरब्धतरः समुद्र इव पर्वणि
चिन्तयाम् आस च तदा रामः पितृहिते रतः
किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति
अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति
तस्य माम् अद्य संप्रेक्ष्य किमायासः प्रवर्तते
स दीन इव शोकार्तो विषण्णवदनद्युतिः
कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत्
कच्चिन् मया नापराद्धम् अज्ञानाद् येन मे पिता
कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय
विवर्णवदनो दीनो न हि माम् अभिभाषते
शारीरो मानसो वापि कच्चिद् एनं न बाधते
संतापो वाभितापो वा दुर्लभं हि सदा सुखम्
कच्चिन् न किं चिद् भरते कुमारे प्रियदर्शने
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्
अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः
मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे
यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते
कच्चित् ते परुषं किं चिद् अभिमानात् पिता मम
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः
एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः
किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे
अहं हि वचनाद् राज्ञः पतेयम् अपि पावके
भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च
तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम्
करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते
तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम्
उवाच रामं कैकेयी वचनं भृशदारुणम्
पुरा देवासुरे युद्धे पित्रा ते मम राघव
रक्षितेन वरौ दत्तौ सशल्येन महारणे
तत्र मे याचितो राजा भरतस्याभिषेचनम्
गमनं दण्डकारण्ये तव चाद्यैव राघव
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि
आत्मानं च नररेष्ठ मम वाक्यम् इदं शृणु
स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम्
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च
सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः
अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस
भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम्
नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्
तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम्
श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत्
एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः
जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन्
इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः
नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः
मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः
यास्यामि भव सुप्रीता वनं चीरजटाधरः
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च
नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम्
अलीकं मानसं त्व् एकं हृदयं दहतीव मे
स्वयं यन् नाह मां राजा भरतस्याभिषेचनम्
अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः
तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन्
तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः
वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः
भरतं मातुलकुलाद् अद्यैव नृपशासनात्
दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः
अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी
प्रस्थानं श्रद्दधाना हि त्वरयाम् आस राघवम्
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः
भरतं मातुलकुलाद् उपावर्तयितुं नराः
तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्
राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि
व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते
नैतत् किं चिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम्
यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन्
पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा
धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः
मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते
रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः
तद् अप्रियम् अनार्याया वचनं दारुणोदरम्
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत्
नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे
विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम्
यद् अत्रभवतः किं चिच् छक्यं कर्तुं प्रियं मया
प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत्
न ह्य् अतो धर्मचरणं किं चिद् अस्ति महत्तरम्
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम्
वने वत्स्यामि विजने वर्षाणीह चतुर्दश
न नूनं मयि कैकेयि किं चिद् आशंससे गुणम्
यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती
यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम्
ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम्
भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता
शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम्
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा
कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्
निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्
तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्
शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन्
न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति
लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा
न वनं गन्तुकामस्य त्यजतश् च वसुंधराम्
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च
प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिम् आगताम्
न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0